SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६ व्यधत्त विधिना स्पर्द्धामप्यनुल्लङ्घयन् विधिम् । विधिनिर्मितदौर्विध्यानीश्वरीकृत्य सोऽञ्जसा ॥८७॥ द्विसन्ध्यमावश्यकमेकचित्तस्त्रिसन्ध्यमर्च्या जिनराजमूर्त्तेः । कुर्वन् सदा पर्वसु पौषधादिकर्मो हि धर्मं चिरमारराध ॥ ८८ ॥ उपार्जयामास हिरण्यकोटीर्महेभ्यकोटीरमणिः सुखेन । वणिक्पुतश्रेणिनिषेव्यमाणोऽपापैरुपायैर्नरवाहनोऽन्यः ॥८९ ॥ स्वरूपशोभाविजिताप्सरोभ्यामभान्महेभ्यः सुभगः प्रियाभ्याम् । सरूपशोभाजितकाममानः सदार्थिनां कल्पतरूपमानः ॥९०॥ पुत्रपौत्रप्रपौत्रादिस्वजनालम्बनं हि सः । रराज वासव इव स्वर्वासिभिरुपासितः ॥९१॥ इति करमाह्वः साधितपुरुषार्थो मनसि देवमेव जिनम् । श्रीविनयमण्डनं गुरुमस्थापयदमलसम्यक्त्वः ॥ ९२ ॥ शत्रुञ्जयोद्धृतिविधो विधृतप्रतिज्ञः स्वप्नेऽपितिद्गतमनाः प्रयतः समन्तात् । इष्टार्थसाधकमनिन्दितमुत्प्रभावं 'धर्म्मामरद्रुममसौ चिरमारराध ॥ ९३ ॥ प्रथमोल्लासः । इति श्रीइष्टार्थसाधकनाम्नि श्रीशत्रुञ्जयोद्धारप्रबन्धे पं. विवेकधीरगणिकृते वंशादिव्यावर्णनो नाम प्रथम उल्लासः । १. चिंतामणि स खलु मंत्रमथारराध - इति वा पाठः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy