SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आराधनासारः “ अखंडितमनाकुलं ज्वलदनंतमंतर्बहि महः परममस्तु नः सहजमुदिलासं सदा । चिदुच्छलननिर्भरं सकलकालमालंबतो यदेकरसमुल्लसल्लवणखिल्ललीलायितम् " ॥ ७८ ॥ प्रागुक्तलक्षणशून्यतापरिणतः आत्मा शुद्ध एव भावो भवति स शुद्धभावः किमारव्यो भवतीत्यावेदयति;जो खलु सुद्धो भावो सो जीवो चेयणावि सा उत्ता। तं चेव हवदिणाणं दंसणचारित्तयं चेव ॥ ७९ ॥ यः खलु शुद्धो भावः स जीवश्चेतनापि सा उक्ता । व तच्चैव भवति ज्ञानं दर्शनचारित्रं चैव ॥ ७९ ॥ जो खलु सुद्धो भावो यः खलु निश्चयेन शुद्धो रागद्वेषमोहादिदोघोज्झितः भावो भवति स एव भावो जीवः चतुर्भिर्द्रव्यभावप्राणैः पूर्वमजीवत् संप्रति जीवति अग्रे च जीविष्यति इति जीवः ज्ञानदर्शनोपयोगमयः तथा चेयणावि सा उत्ता स एव भावः सा जगत्प्रसिद्धा चेतना उक्ता प्रतिपादिता । स एव भाव तं चेव हवदि इत्यादि तत् विशुद्धं ज्ञानं दर्शनं चारित्रं भवति । यदुक्तम् तदेकं परमं ज्ञानं तदेकं शुचिदर्शनम् । चारित्रं च तदेकं स्यात्तदेकं निर्मलं तपः ॥ नमस्यं च तदेवैकं तदेवैकं च मंगलम् । उत्तमं च तदेवैकं तदेव शरणं सताम् ॥ अनुच-" आक्रामन्नविकल्पभावमचलं प:नयाभ्यां विना सारो यः समयस्य भाति निभृतैरास्वाद्यमानः स्वयम् । विज्ञानैकरसः स एष भगवान् पुण्यः पुराणः पुमान् ज्ञानं दर्शनमप्ययं किमथवा यत्किंचनैकाप्ययम्" ॥७९॥ यः खलु शुद्धो भावः स एव रत्नत्रयमित्याचष्टे; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy