SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ टीकासहितः । ८९ तणुमणवयणे सुण्णो ण य सुण्णो अप्पसुद्धसब्भावे । ससहावे जो सुण्णो हवइ वसो गयणकुसुमणिहो ॥ ७६ ॥ तनुमनोवचने शून्यो न च शून्य आत्मशुद्धसद्भावे । स्वसद्भावे यः शून्यो भवति वशो गगनकुसुमनिभः ॥ ७६ ॥ क्षपको ध्याता सुण्णो शून्यो भवतु । कस्मिन् शून्यो भवतु । तणुमणवयणे तनुः शरीरं मनश्चित्तं वचनं प्रतीतं तनुश्च मनश्च वचनं च तनुमनोवचनं तस्मिन् तनुमनोवचने । इदं शरीरादिकं मदीयमिति परिछिनति । अथवा तनुक्रिया शुशुभरूपा देवार्चनादिका अशुभरूपा प्राणिहननादिका, मनः क्रिया शुभरूपा देवगुरुगुणस्मरणादिका अशुभरूपा वधबंधनचिंतनादिकाः, वचनक्रियाः शुभरूपा देवगुरुस्तुत्यादिकाः अशुभरूपा मिथ्याभाषणादिका इत्येतासु शून्यः । यदुक्तं आस्तां बहिरुपधि च यस्तनुवचन विकल्पजालमप्यपरम् । कर्मकृतत्वान्मत्तः कुतो विशुद्धस्य मम किंचित् ॥ कर्मणो यथास्वरूपं न तथा तत्कर्म कल्पनाजालम् । तत्रात्ममतिविहीनो मुमुक्षुरात्मा सुखी भवति ॥ तथा ण य सुण्णो अप्पसुद्धसब्मावे न च शून्य आत्मशुद्धसद्भावे आत्मनश्चिदात्मकस्य शुद्धो रागादिमलरहितः सद्भावोस्तिस्वभावः तस्मिन्न आत्मशुद्धसद्भावे न च शून्यो ध्याता । नित्यानंदैकस्वभावं परमात्मतत्त्व तत्र ननु जाग्रदवस्थः इत्यर्थः । यदुक्तम् अस्पृष्टमबद्धमनन्यमयुतमविशेषमभ्रमोपेतः । यः पश्यत्यात्मानं स पुमान् खलु शुद्धनयनिष्ठः ॥ स्वसद्भावे यः शून्यः स कीदृश इत्याह । ससहावे जो सुण्णो स्वसद्भावे टंकोत्कीर्णपरमानंदैकस्वभावे यो ध्याता शून्यो ऽविकल्पः स गगनकुसुमनिभो भवति च, गगनस्य आकाशस्य कुसुमं गगनकुसुमं तन्निभः गगन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy