SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। भावितं वासितं सत् तक्काले तत्काले तदानीं अप्पसहावे आत्मस्वभावे शुद्धपरमात्मस्वरूपे सुक्खे मोक्षसुखे भावमोक्षलक्षणसमुद्भूतसुखे कीलह क्रीडति क्रीडमानस्तिष्ठतीति गाथार्थः ॥ ६७ ॥ मनःप्रसरणनिवारणफलं दर्शयित्वा संप्रति तद्रूपवृक्षखंडनाय शिष्योपदेशं ददति;पिल्लूरह मणवच्छो खंडह साहाउ रायदोसा जे । अहलो करेह पच्छा मा सिंचह मोहसलिलेण ॥६॥ निलयत मनोवृक्षं खंडयत शाखे रागद्वेषौ यौ। अफलं कुरुध्वं पश्चात् मा सिंचत मोहसलिलेन ॥ ६८ ॥ मणवच्छो मनोवृक्षं मनोरूपतरं निर्दृयत छिन्नविस्तारं कुरुत रागद्वेषद्वितया शाखे शाखाशब्दे द्विवचनं अहलं अफलं करेह कुरुध्वं । यथा स मनोवृक्षो न फलति । पुनरपि रागद्वेषवशात् संकल्पविकल्पेषु न प्रवर्तते तथा कुरुत । पच्छा पश्चात् पुनः मोहसाललेन ममेदमस्याहमिति विभ्रमो मोहः मोहरूपजलेन मा सिंचह मा सिंचतु मनोवृक्षमूले मा मोहरूपं जलं ददत इत्यर्थः ॥ ६८॥ एवं मनोवृक्षमुत्पाटनाय शिष्यमुपदेश्याधुना मनोव्यापारे विनष्टे इंद्रियाणि विषयेषु न यांतीति दर्शयन्नाह; णडे मणवावारे विसएमु ण जंति इंदिया सव्वे । छिण्णे तरुस्स मूले कत्तो पुण पल्लवा हुँति ॥ ६९ ॥ नष्टे मनोव्यापारे विषयेषु न यांति इंद्रियाणि सर्वाणि । छिन्ने तरोर्मूले कुतः पुनः पल्लवा भवति ॥ ६९ ॥ मणवावारे मनोव्यापारे चित्तस्य संकल्पविकल्पस्वरूपे व्यापारे नष्टे विनष्टे सति सव्वे सर्वाणि समस्तानि इंदिया इंद्रियाणि हृषीकानि विसएसु विषयेषु गोचरेषु ण जंति न यांति न गच्छंति । अत्रैवार्थे अर्थातर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy