SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। ७७ मनोनरपतिः संभुंक्त अमरासुरखगनरेंद्रसंयुक्तं । निमिषेणैकेन जगत्तस्यास्ति न प्रतिभटः कोपि ॥ १९ ॥ मणणरवइ मनोनरपतिः मनो मानसं तदेव नरपतिः राजा कर्ता अमरासुरखगणरिंदसंजुत्तं अमरासुरखगनरेंद्रसंयुक्तं अमरा: कल्पवासिनः असुरा दैत्याः खगा विद्याधरा नरेंद्राश्चक्रवर्त्यादयः। अत्र सर्वत्र द्वंद्वसमासः अमरासुरखगनरेंद्रैः संयुक्तं जयं जगत् त्रैलोक्यं णिमिसेणेकेण निमिषेनैकेन संभुक्ते एकक्षणमात्रेण स्वभोगयोग्यं करोतीत्यर्थः । तस्स तस्य मनसः कोइ कोपि तेषाममरासुरनरेंद्राणां मध्ये एकतमोपि पडिभडो प्रतिभटः प्रतिमल्लो न विद्यते इत्यर्थः । तथा चोक्तं ज्ञानार्णवे शुभचंद्राचार्यैःदिक्चक्र दैत्यधष्ण्यां त्रिदशपतिपुराण्यंबुवाहांतरालं द्वीपांभोधिप्रकांडं खचरनरसुराहींद्रवासं समग्रम् । एतत्रैलोक्यनीडं पवनचयचितं चापलेन क्षणार्धे नाश्रांतं चित्तदैत्यो भ्रमति तनुमतां दुर्विचिंत्यप्रभावः ॥ इति बुद्धवा शुद्धबुद्धकस्वभावपरमात्मनो भावनाबलेन मनोराजबलमबलीकृत्य निजात्मनि स्थापनीयमित्युपदेशार्थ गाथा गता ॥ ५९ ॥ इदानी मनोनरपतेमैरणे संभूते उत्तरोत्तरमिंद्रियादीनां मरणमपि जायते ततो मोक्षसुखं यतो जायते तस्मान्मनसो मारणाय प्रयोजयति यथा तथा दर्शयति;मणणरवणो मरणे मरंति सेणाइं इंदियमयाइ। ताणं मरणेण पुणो मरांति णिस्सेसकम्माइ ॥६॥ तेसिं मरणे मुक्खो मुक्खे पावेइ सासयं सुक्खं । इंदियविसयविमुक्कं तम्हा मणमारणं कुणइ ॥६१॥ मनोनरपतेर्मरणे म्रियते सैन्यानि इंद्रियमयानि । तेषां मरणेन पुननियंते निःशेषकर्माणि ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy