SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ टीकासाहतः। विराजमानसमवशरणपरमविभूत्यभ्यंतरसहजवस्तुस्वभावीभूतानंतचतुष्टयव्यक्तिलक्षणामी लक्ष्मी रात्यादत्ते गृह्णातीति वीरः, महांश्चासौ वीरश्च महावीरस्तं महावीरं चरमतीर्थकरपरमदेवं अर्हद्भट्टारकं श्रीवर्धमानस्वामिनामानं । किंविशिष्टं । विमलतरगुणसमृद्धं प्रसिद्धघातिकचतुष्टयरूपसंतमसविनाशप्रादुर्भूतयुगपत्प्रतापप्रकाशाभिव्यक्तिसूर्योदयदृष्टांतास्पदीभूतातीतानागतवर्तमानत्रिकालगोचरोत्पादव्ययध्रौव्यलक्ष्मत्रितयालिंगितत्रिभुवनोदरविवरवर्तिशुद्धचैतन्यविलासप्रवर्तमानपरमात्मपदार्थादिसमस्तवस्तुस्वभावबोभूयमानकालकलानिदर्शनाश्लिष्टैकसमयग्रहणसमर्थसामान्यविशेषरूपवर्तमाननिर्मलतरज्ञानदर्शनाभिधानसर्वज्ञगुणसंपूर्ण । पुनः किंविशिष्टं । सिद्धं प्रसिद्धं । पुनरपि किंविशिष्टं । सुरसेनवंदितं गर्भादिमहाकल्याणमहोत्सवेषु पितृभ्यां सह सकलगीर्वाणचक्रनमस्कृतं । केन । शिरसा मस्तकेनेति योजनिकाद्वारः । विमलतरगुणसमृद्धं सुरसेन वंदितं महावीरं सिद्धं, पक्षे विमलतरगुणसमृद्धं सिद्धं सुरसेनवंदितं महावीरं शिरसा नत्वा आराधनासारमहं वक्ष्य इति संक्षेपान्वयद्वारः। सुरसेनवंदितमित्यत्र सिद्धविशेषणपदे अभिधानसामर्थ्यात् केचन छायार्था अपि निष्पाद्यते । कथं । सुराणां देवानां ग्रहणेन यद्यप्यूज़लोकस्वामित्वमालिनः पंचविधाः ज्योतिष्काः, सौधर्मेन्द्रप्रमुखाः कल्पवासिनो भावनां कुर्वाणाः कल्पातीता अपि, अधोलोकस्वामित्वमालिनो भवनवासिदेवनिकायत्वाद्धरणेंद्रप्रमुखाश्च केचन व्यंतराधिपतयोऽपि, तथा व्यंतरास्तिर्यग्लोकनिवासिनोपि सर्वे त्रिभुवनोदरविवरवर्तिनो देवा गृह्यते मध्यलोकस्वामित्वमालिनः चक्रवर्तिप्रमुखा नराः, तिरश्चां स्वामित्वमाली सिंहः तन्मुखा अन्येपि पशवो गृहीताः। " भवणालय चालीसा वितरदेवाण हुंति बत्तीसा । कप्पामर चउवीसा चंदो सूरो णरो तिरिओ" इति गाथा कथितशतेन्द्रवंदितत्यं । कथं भविष्यति । अयमप्यर्थोऽत्रैवांतर्भवतीति । कथं । रसा पृथ्वी पूर्वोपार्जितविशिष्टपततमागण्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy