SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७२ आराधनासारः सर्वं त्यागं कृत्वा विषयानभिलषसि गृहीतसंन्यासेः । यदि तदा सर्वमफलं दर्शनं ज्ञानं तपः करोषि ॥ ५४ ॥ सर्व त्यागं कृत्वा गृहीतसंन्यासे सति यदि विषयानभिलषसि तदा दर्शनं ज्ञानं तपः सर्वमफलं करोषि । तथाहि - भो क्षपक पूर्व तावत्त्वं संसारस्वरूपमनित्यं नित्यं मोक्षस्वरूपं निश्चित्य चेतसि सार्वभौमसाम्राज्यराज्यलक्ष्मीं तृणवदवगण्यस्व सव्वं चायं काऊ सर्वपरिग्रहत्यागमेव कृत्वा । क्व सति । गहियसण्णासे गृहीतश्वासौ संन्यासश्च तस्मिन् सति जइ यदि त्वं पुनरपि विसए अहिलससि विषयानभिलषसि तो तदा दंसण णाणं तवं दर्शनं ज्ञानं तपश्च सव्वं सर्वे अहलं अफलं फलरहितं कुणसि करोषि दर्शनज्ञानतपसां यत्संवरनिर्जरा मोक्षस्वरूपं फलं विषयाभिलाषे सति तपः कुर्वत्स्वपि तन्न भवतीत्यर्थः । तथा चोक्तम् - पठतु सकलशास्त्रं सेवतां सूरिसंघान् दृढयतु च तपश्चाभ्यस्यतु स्फतियोगम् । चरतु विनयवृत्तिं बुध्यतां विश्वतत्त्वं यदि विषयविलासः सर्वमेतन्न किंचित् ॥ एवं ज्ञात्वा विवेकिना धर्मे विधीयमाने कस्मिन्नपि कापि अभिलाषो न विधेयः समीहितनिधिकत्वात् । तथा चोक्तं स्पृहा मोक्षेपि मोहोत्था तन्निषेधाय जायते । अन्यस्मिन् तत्कथं शांताः स्पृहयंति मनीषिणः ॥ किंतु शुद्धपरमात्मन्येव भावनाभिलाषो योग्यो भवतीति तात्पर्यम् ॥ ५४ ॥ ननु निखिलदोषान् परिहर्तुकामो मुनिः कस्मादशक्य इति वदंतं प्रति वदति वदतांवरः सूरिवरः । इंदियविसयवियारा जाम ण तुवंति मणगया खवओ । जाव ण सक्कइ काउं परिहारो णिहिलदोसाणं ॥ ५५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy