SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आराधनासार तस्थिवान् । शुकचरेण व्यंतरदेवेन तेन पूर्ववैरमनुस्मृत्य शीतलवारिणा सिक्ता तथा शीतलवातेन कदर्थिता सहजशुद्धं परमात्मानमाराध्य केवलाख्यं च ज्योतिरुत्पाद्य निर्वाणं प्राप्तवान् श्रीदत्तो मुनिः ॥ ५१ ॥ यथा प्रागुक्तैः राजर्षिभिरुपसर्गः सोढस्तथा त्वमपि सहस्वेत्युत्साहयन्नाह;एएहिं अवरेहिं य जहं सहिया थिरमणेहिं उवसग्गा। विसहसु तुमंपि मुणिवर अप्पसहावे मणं काऊ ॥५२॥ एतैरपरैश्च यथा सोढाः स्थिरमनोभिः उपसर्गाः । विषहस्व त्वमपि मुनिवर आत्मस्वभावे मनः कृत्वा ॥५२॥ विसहसु विषहस्व मुणिवर मुनिवर क्षपक । कान् । अर्थादुपसगान् । जहं एएहि अवरेहि य यथा एतैः पूर्वोक्तैः सुकुमालादिभिः अनुक्तैः संजयंतादिभिः सहिया सोढाः । के । उपसर्गाः । कीदृशैः । थिरमणेहिं. स्थिरमनोभिः स्थिरचित्तैः । यथा सुकुमालसुकोशलगुरुदत्तपांडवादिभिराराधनास्वधुनीमध्यमध्यासीनैरुपसर्गाः चतुर्विधाः समभावनया सोढास्तथा त्वमपि यद्युत्तमा गतिं जिगमिषसि तर्हि सहस्व । किं कृत्वा । अप्पसहावे. मणं काऊ आत्मस्वभावे परमात्मनि मनश्चित्तं कृत्वा सहस्वेत्यर्थः ॥ ५२।। प्रपंचतः प्रकृष्टोपसर्गान् व्याख्याय संप्रति क्रमायातस्येंद्रियजयस्य प्रपंचयन् गाथापंचकं निरूपयति इति समुदायपातनिका। तत्रादौ रूपकेण कृत्वा इंद्रियाणां व्याधत्वं समर्थयन् स्मरे शरत्वं विषयेषु वनत्वं जनेषु हरिणत्वं प्रतिपादयति;इंदियवाहेहिं हया सरपीडापीडियंगचलचित्ता। कत्थपिण कुणंति रई विसयवणं जंति जणहरिणा॥५३॥ इंद्रियव्याधैर्हताः शरपीडापीडितांगचलचित्ताः । कुत्रापि न कुवैति रतिं विषयवनं यांति जनहरिणाः॥ ५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy