SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। यदि भवंति कथमपि यतरुपसर्गा बहुविधा खलु दुःखजनकाः । ते सोढव्या नूनं समभावनाज्ञानचित्तेन ॥ ४७ ॥ जइणो यतेर्मुनीश्वरस्य कहावं कथमाप पुरा दुरर्जितकर्मोदयेन बहुविहा बहुविधाः सचेतनाचेतनप्रभवाः दुहजणया दुःखजनका दुःखोत्पादका उवसग्गा उपसर्गा उपद्रवलक्षणा जइ हुंति यदि भवंति हु खलु । ते उपसर्गाः । किं कर्तव्याः । सोढव्वा सोढव्या नूनं अंगीकर्तव्याः । केन । मुनिना । किं विशिष्टेन । समभावणणाणचित्तण समभावनज्ञानचित्तेन दुःखे सुखेऽमित्रे मित्रे बने भवनेऽलाभे लाभे काचे सुवर्णे समाना भावना समभावना प्रोच्यते । कस्मात् । तदवस्थायां रागद्वेषयोरभावात्। समभावनायां यत्स्वसंवेदनज्ञानं समभावनज्ञानं समभावनज्ञानं चित्ते यस्यासौ समभावनज्ञानचित्तः तेन समभावनज्ञानचित्तेन । तथा चोक्तं ज्ञानार्णवे। “ सौधोत्संगे स्मशाने स्तुतिशपनविधौ कर्दमे कुंकुमे वा । पल्यंके कंटकाग्रे दृषदि शशिमणौ चर्म चीींशुकेषु । शीरेंगे दिव्यनार्यामशमनमवशा स्वस्य चित्तं विकल्पै । र्नालीढं सोयमेकः कलयति कुशलः साम्यलीलाविलासम् " ॥ ततो नानाविधेषु घोरोपसर्गेषु उपढौकितेषु सत्स्वपि मुमुक्षुणामुनिना निजचिरदुरर्जितकर्मविपाकं बुद्धा निरुपद्रवशुद्धपरमात्मस्वसंवेदनज्ञानभावनाबलेन शरीरे ममतां परिहाय समतामवलंब्य स्थातव्यमितितात्पर्यम् ॥४७॥ णाणमयभावणाए भावियचित्तेहिं पुरिससीहेहिं । सहिया महोवसग्गा अचेयणादीय चउभेया ॥४८॥ ज्ञानमयभावनया भावितचित्तैः पुरुषसिंहैः । सोढा महोपसर्गा अचेतनादिकाः चतुर्भेदाः ॥ ४८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy