SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पर आराधनासारः mmmmmmmmmmm ननु परीषहान् सोढुमशवकुाना ये अनेकभवगहनदुःखनिर्घादनसमर्थे ग्रहीतं चारित्रं परित्यजति तेषामिह लोके परलोके च किं फलमिति तदाह: . परिसहमडाण भीया पुरिसा छंडंति चरणरणभूमी। भुवि उवहासं पविया दुक्खाणं हुति ते णिलया ॥४४॥ परीषहभटेभ्यो भीताः पुरुषास्त्यति चरणरणभूमिम् । भुवि उपहासं प्राप्ता दुःखानां भवंति ते निलयाः ॥ ४४ ॥ __ये केचित् परिसहभडाण परीषहभटेभ्यः परीषहा एव भटाः शरीरेण शीतातपत्ापादिकठोरघातपानकत्वात् तेभ्यो भीया भीताः स्वस्वभावादन्यमनस्कतां नीताः पुरिसा पुरुषाः चरणरणभूमी चरणरणभूमि चरणं चारित्रं तदेव रणभूमिः संग्रामभूमिः व्रतसमितिगुप्तिप्रभृतिसैन्यपरिग्रहप्रवरविजृभमाणप्रभुत्वेन स्वरूपावस्थानसाम्राज्यभाज्यात्मनुपण निर्बाधभेदबोधासिना अनादिकामक्रोधमोहादिसैन्यशालिनां कर्मारीणां विध्वंसत्वात् तां रणभूमि छंडंति परित्यजति मुंचंति । ते कथंभूता भवतीत्याह । भुवि इहलोके उवहासं उपहास्यं सज्जनानां म्लानीकरणकारणदुर्जनजनजनितधिक्कारांगुलिप्रसरपरस्परभ्रूविकाराविष्करणलक्षणं पाविय प्राप्ताः । परलोके च किंविशिष्टा । हुति भवंति दुःक्खाणं दुःखानां अनंतसंसारसंभवसकलाकुलत्वोत्पादकत्वात्मकलक्षणानां णिलया निलयाः स्थानानि तद्रूपवस्तुसमाश्रयत्वात् ते चारित्रभोक्तारः भवंति यस्मादेवं तस्मादिहलोकफलहानिमवलोक्य मा चारित्रं त्यजंतु मुनयः परिणामपरावर्तनतया तत्क्षणविध्वंसत्वात् किं मे परीषहवराकाः करिष्यति इति दृढतरं चित्तं विधाय परीषहदुःखमवगणय्य शुद्धपरमात्मानं भावयेति तात्पर्यम् ॥ ४४॥ . अथ गाथायाः पूर्वार्धन यदि परीषहेभ्यो भीतस्तदा गुप्तित्रयमेव दुर्गमाश्रय अपरार्धेन च मोक्षगतं मनोवाणं विधेहीति शिक्षयति; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy