SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आराधनासारः ननु यावत्कषायवान् क्षपकः कषायान्न हंति तावत्किं किं न स्यादित्याह;जाम ण हणइ कसाए स कसाई णेव संजमी होइ। संजमरहियस्स गुणा ण हुंति सव्वे विसुद्धियरा ॥३७॥ यावन्न हंति कषायान् स कषायी नैव संयमी भवति । . संयमरहितस्य गुणा न भवंति सर्वे विशुद्धिकराः ॥ ३७ ॥ अत्रान्वयक्रमेण व्याख्यानं । स कसाई स पूर्वोक्तलक्षणः क्षपकः कषायीभूतः सन् जाव यावत्कालं कसाए कषायान् क्रोधादिलक्षणान् ण हणइ न हंति न निराकरोति तावदित्यध्याहारः 'यत्तदोर्नित्यसंबंधमितिवचनात् 'ताव तावत्कालं संजमी संयमी संयमयुक्तः ण होइ न भवत्येव एवेत्यत्र निचयार्थे । कुतः । यतः संजमरहियस्स संयमरहितस्य पुरुषस्य सव्वे गुणा सर्वे गुणाः सम्यग्दर्शनादयो गुणा विसुद्धियरा विशुद्धिकराः परिणामशुद्धिकारिणो ण हुंति न भवंति अतः परिणामशुद्धये कषायविजयेन संयममूरीकृत्य परमात्मानमाराधयत इति तात्पर्यम् ॥ ३७ ॥ ननु भगवन् कषायेषु किं करणीयं भवति मुनिभिस्तत्कृते किं फलं स्यादिति पृष्टे प्रत्युत्तरमाह;-- तम्हा जाणीहिं सया किसियरणं हवइ तेसु कायव्वं । किसिएसु कसाएमु अ सवणो झाणे थिरो हवइ ॥३०॥ तस्माद् ज्ञानिभिः सदा कृषीकरणं भवति तेषु कर्तव्यम् ।। कृषितेषु कषायेषु च श्रमणो ध्याने स्थिरो भवति ॥ ३८ ॥ तम्हा तस्मात् कारणात् णाणीहिं ज्ञानिभिः विवेकिभिः तेसु तेषु कषायेषु सया सदा सर्वकालं किसियरणं कृषीकरणं स्वस्वरूपन्यवस्थापनेन परपदार्थप्रवर्तमानपरिणामपूरदूरीकरणं कायव्वं कर्तव्यं करणीयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy