SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आराधनासारः दार्थविलक्षणनिद्रादर्शनावरणकर्मोदयेन स्थापलक्षणा निद्रा । यावदाहारस्य विजयः आसनस्य विजयः निद्राया विजयः । आहारादीनां विजय इति कोर्थः इति चेत् । यथा यौवनावस्थायां पुमान अनशनावमौदर्यादिभिस्तीवतपोविशेषैराहारजयं तथा आसनविजयं निद्राविजयं करोति तथा वृद्धावस्थायां कर्तुं न शक्नोति इति तात्पर्यः। कुतः आहारासननिद्रादीनां विजयोस्ति । अप्पणो आत्मनः आत्मनः सकाशात् । कथं । पूर्ण नूनं निश्चयेन । न केवलं आहारासननिद्राणां विजयोस्ति । जाम ण तरइ य यावन्न तरति च । कोसौ। णिज्जावओ निर्यापकः शास्त्रोक्तलक्षणः । केन । अप्पणेण य आत्मनैव । कं । अप्पाणं आत्मानं आचारशास्त्रोक्ताष्टचत्वारिंशन्निर्यापकाननपेक्ष्य आत्मनैव निर्यापको भूत्वा आत्मानं तरति यावत् । न केवलमात्मनैव निर्यापको भूत्वा आत्मानं यावत्तरति । जाम ण सिढिलायति य यावन शिथिलायते यावत्कालं शिथिल इव नाचरंति । कानि । अंगोपांगानि । अंगानि शिरोभुजादिलक्षणानि । एतभ्यः अवशेषाणि उपांगानि । उक्तं च " चरणयुगं बाहुयुगं पृष्ठकटी मस्तकादि वक्षश्च । एतान्यंगान्यष्टौ देहे शेषाण्युपांगानि " इति । न केवलं अंगोपांगानि शिथिलायते संधिबंधाई संधिबंधाश्च शरीरेऽस्यां संधयः संधानानि तेषां बंधः शिरास्नायुजालेन परस्परजड़ीकरणानि । न केवलमंगोपांगसंधिबंधाः शिथिलायंते । जाम ण कंपइ यावचन कंपते । कोसौ । देहो देहः शरीरं । कस्मात् । भयेण भयात् । कस्य । मिच्चुस्स मृत्योः देहात् प्राणसमुदायविघटनसामर्थ्ययुक्तनिजार्जितायुःकर्मभवस्थितिपरिसमापकसमयलक्षणकालस्य । क इव । भीउच्च भीत इव त्रासयुक्त इव । यथा कश्चन अतिरौद्ररूपसिंहव्याघ्रताडनमारणादिकारणेभ्यो भीतः कंपते तथायं देहो मरणभयात्कंपते, वृद्धावस्थायां हि शरीरे स्वयं कंप: संजायते । यावदीगवस्थाकारिणी वृद्धावस्था न समायाति तावद्यौवनभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy