SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ टीकासहितः । ३१ 1 बोधिः । सुसमाही सुसमाधिश्च । सुसमाधेः किं लक्षणं । तस्यैव बोधर्निर्विन भवांतरावाप्तिरिति समाधिः । न केवलं सुसमाधिः । आराहणा आराचना नैव पूर्वोक्तलक्षणं । उक्तं च "6 भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन । अस्यैवाभावतो बद्धा बद्धा ये किल केचन " ॥ आत्मपरावबोधरहितस्य बोधिः समाधिराराधना न भवतीत्येवं बुवा यथोक्तलक्षणनिजात्मद्रव्यपरद्रव्यस्वरूपं परिज्ञाय तत्र परद्रव्यं हेयमात्मद्रव्य-मुपादेयमिति तात्पर्यार्थः ॥ २१ ॥ एवमारा धकविराधकयोः स्वरूपं प्रकाश्येदानीं अरिह इत्यादिसप्तभिः स्थलैः कर्मरिपुं हंतुकामस्य क्षपकस्य वक्ष्यमाणसामग्री मेलयित्वा कर्माणि हंतु भवान् इति शिष्यं प्रयच्छन्नादौ तेषां सप्तस्थलानां गाथाद्वयें नामानि प्रकटयन्नाह ;अरिहो संगञ्चाओ कसायसल्लेहणा य कायव्वा । परिसहचमूण विजओ उवसग्गाणं तहा सहणं ॥ २२ ॥ इंदियमल्लाण जओ मणगयपसरस्स तह य संजमणं । काऊण हणउ खवओ चिरभवबद्धाइ कम्माई ॥ २३ ॥ अहः संगत्यागः कषायसल्लेखनां च कर्तव्यां । परिषहचमूनां विजयमुपसर्गाणां तथा सहनम् || २२ || इन्द्रियमलानां जयं मनोगतप्रसरस्य तथा च संयमनम् । कृत्वा हंतु क्षपकः चिरभववद्धानि कर्माणि ॥ २३ ॥ युग्मम् | हणउ हंतु निराकरोतु । कोसौ । खवओ क्षपकः कर्मक्षपणशीलः । किंविशिष्टः । अरिहो अहः संन्यासयोग्यः । कानि । कम्माइँ कर्माणि ज्ञानावरणादिलक्षणानि । किंविशिष्टानि । चिरभवबद्धानि पूर्वोपार्जितानि । किमारभ्य । काऊण कृत्वा संगञ्चाओ संगत्यागं । इहार्षेयत्वात्कर्मस्थाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy