SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२० आराधनासारः ये जघन्या आराधकास्ते याराधनासामर्थ्यात् कियत्स्वपि भवेष्वतीतेषु मोक्षमासादयंतीति व्यनक्तिजेसिं हुंति जहण्णा चउविहाराहणा हु खवयाणं । सत्तट्ठभवे गंतुं तेवि य पावंति णिव्वाणं ॥१०९॥ येषां भवंति जघन्या चतुर्विधाराधना हि क्षपकानाम् । सप्ताष्टभवान् गत्वा तेपि च प्राप्नुवंति निर्वाणम् ।। १०९॥ पावंति प्रामुवंति लभंते । के । तेवि य तेपि च । किं प्रामुवंति । णिव्वाणं निर्वाण शाश्वतानंदस्थानं । किं कृत्वा प्राप्नुवंति । सत्तहभवे गंतुं सप्तभवान् अष्टसंख्याकान् वा भवान् भवांतराणि गत्वा अतिक्रम्य गत्वेति क्त्वाप्रत्ययांतः । सप्ताष्टभवांतरेष्वतीतेषु मोक्षमक्षयसुखमासादयंतीत्यर्थः । ते के इत्याह । जेसिं हुंति जहण्णा चउन्विहाराहणाहु हु स्फुटं येषां क्षपकानां चतुर्विधा आराधना जघन्या भवंति । तथाहि-ये खलु मनश्चांचल्यात्सहजशुद्धचिदानंदात्मनि स्वात्मनि स्थितिमल्पतरामासादयंति व्यवहारपरमार्थरूपेषु दर्शनशानचारित्रतपःस्वपि मनोवचनकायसामर्थ्यरहितत्वात्सम्यगाराधनां नाचरंति तेपि जघन्या आराधकास्त्रिचतुरेषु भवांतरेषु अतीतेषु मोक्षमक्षयसुखमुपलभंते अतएवाराधनैव मोक्षं करोतीति भावार्थः ॥ १०९॥ व्यवहारनिश्चयाराधनोपयोगभाजः शुभकर्मोत्पादितस्वरैश्वर्यादिफलमनुभूय कमनीयमुक्तिकामुका भवंतीत्याह; उत्तमदेवमणुस्से सुक्खाइं अणोवमाई भुत्तूण । आराहणउवजुत्ता भविया सिझंति झाणट्ठा॥११०॥ उत्तमदेवमानुषेषु सुखान्यनुपमानि भुक्त्वा । आराधनोपयुक्ता भव्याः सिध्यति ध्यानस्थाः ॥ ११०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy