SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आराधनासारः देहपरिमुक्तः देहा औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि तैः परिमुक्तः रहितः देहपरिमुक्तः आत्मोत्थसुखांबुधिगताः सिद्धाः सदैव तृप्ता लोकाग्रनिवासिनस्तिष्ठति । यदुक्तम् "येषां कर्मनिदानजन्मविविधक्षुत्तृण्मुखा व्याधय स्तेषामन्नजलादिकौषधगणस्तच्छांतये युज्यते । सिद्धानां तु न कर्म तत्कृतरुजो नातः किमन्नादिभि नित्यात्मोत्थसुखामृतांबुधिगतास्तृप्तास्त एव ध्रुवम् " ॥ ८९ ॥ इति सिद्धगतिसाधिकामाराधनां विज्ञाय क्षपकस्त्रिगुप्तिगुप्तो भूत्वा आराधयतु सावधानतयेति निदर्शयति; इय एवं णाऊणं आराहउ पवयणस्स जं सारं । आराहणचउखधं खवओ संसारमोक्खहूँ ॥ ९० ॥ इति एवं ज्ञात्वा आराधयतु प्रवचनस्य यत्सारं । . आराधनाचतुःस्कन्धं क्षपकः संसारमोक्षार्थम् ॥ ९० ॥ आराहउ आराधयतु । कोसौ । खवओ क्षपकः । किमाराधयतु । आराहणचउखधं चतुर्णा स्कंधानां समाहारश्चतुःस्कंधं दर्शनचारित्रतपोलक्षणं आराधनायाश्चतुःस्कंधं आराधनाचतुःस्कंधं । किंकृत्वा आरानोतु। इय पवं जाऊणं इत्येवं पूर्वोक्तप्रकारेण आराधनाधीनांतःकरणः प्राणी आराघनाप्रवहणेन विविधतरदुःखभरवारिपूरपूर्ण दुरंतदुर्गतिवडवानलवातुलज्वालाजालकरालं विविधदुःसाध्यव्याधिमकराकीर्णमध्यं विकटक्रोधविटपिव्याप्तविपुलपुलिनं निष्ठुतराहंकारनक्रमकोच्छलनभीषणं मायामीनालिकुलाकुलं समुल्लसलोभशैवालसमन्वितं संसारसमुद्रमलब्धमध्यमुत्तीर्य मोक्षपुराविनश्वरसुखमाराधनाफलभूतमवामोतीति विज्ञाय। कथंभूतं यत् आराधनाचतुःस्कन्धपवयणस्स जं सारं प्रवचनस्य आगमस्य सिद्धांतस्य द्वादशांगभेदभिन्नस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy