SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 74 बावश्यकहारिभद्रीया रणेष्वपुनरुक्तम् ॥१॥” तथा हि 'नामादिभेदविहितं' भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तं च-नाम ठवणा दविए खित्ते काले भवेय भावे य । पज्जवलोगो य तहा अट्ठविहो लोगंमि (ग)निक्खेवो ॥१॥ भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह-'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादि' इति प्राकृतशैल्याऽधोलोकादिभेदम् , आदिशब्दात्तिर्यगूर्वलोकपरिग्रह इति गाथार्थः ॥५३॥ किं च-तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह खिइवलयदीवसागरनरयविमाणभवणाइसंठागं । घोमाइपइहाणं निययं लोगटिइविहाणं ॥५४॥ व्याख्या-'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थान' तत्र क्षितयः खलु धर्माद्या ईपत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि-घनोदधिधनवांततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपा:-जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरप सीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम्-'तीसो य पन्नवीसा पनरस दसेव सयसहस्साई। तिन्नेगं पंचूर्ण पंच य नरगा जहाकमसो ॥१॥' विमानानि-ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि-भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि संख्येयानि, उक्तं च १ नामस्थापनयोः द्रव्ये क्षेत्रे च काले भवेच भावे च । पर्यवलोकः तथाऽष्टविधो लोके निक्षेपः॥१॥२ त्रिंशत् पञ्चविंशतिश्च पञ्चदश दशैव शतसहसाणि । त्रीणि एकं पञ्चोनं पञ्च च नरका यथाक्रमम् ॥१॥ "सत्तेवं य कोडीओ वंति वावत्तरि सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणेजा ॥१॥" आदिशब्दादसत्येयव्यन्तरनगरपरिग्रहः, उक्तं च-"हेहोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेजा ॥१॥" ततश्च शितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा 'व्योमा तेष्ठितिः प्रतिष्ठान, भावे ल्युट, व्योम-आकाशम, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिछानमस्येति व्योमादिप्रतिष्ठान, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः २, स्थितिः व्यवस्था मर्यादा इत्यनर्थान्तरं, तद्विधानं, किम्भूतं?-'नियतं नित्यं शाश्वतं, क्रिया पूर्ववदिति गाथार्थः॥५४॥ किं च नवओगलक्षणमणाइनिहणमत्थंतरं सरीराभो । जीवमरूवि कारिं भोयं च सयस कम्मरस ॥ ५५॥ व्याख्या-उपयुज्यतेऽनेनेत्युपयोगः-साकारानाकारादिः, उक्तं च-'स द्विविधोऽष्ट चतुर्भेदः' (तत्त्वार्थे अ० २ सू०९) स एव लक्षणं यस्य स उपयोगलक्षणस्तं, जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहा. पेक्षया नित्यमित्यर्थः, तथा 'अर्थान्तरं' पृथग्भूतं, कुतः ?-शरीरात्, जातावेकवचनं, शरीरेभ्यः-औदारिकादिभ्य इति, किमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह-'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'कर्तारं' निर्वर्तकं, कर्मण इति गम्यते, तथा. 'भोक्तारम्' उपभोक्तारं, कस्य -स्वकर्मणः-आत्मीयस्य कर्मणः, ज्ञानावरणीयादेरिति गाथार्थः ॥ ५५॥ सप्तैद च कोट्यो भवन्ति द्वासप्ततिः शतसहस्राणि । पुष भवनसमासो भवनपतीनां (इति) विजानीयात् ॥१॥ अधस्तादुपरि योजनशतरहिते रताया योजनसहसे । प्रथमे व्यन्तराणां भौमानि नगराण्यसंख्येयानि ॥१॥ सस्स य सकम्मजणियं जम्माइजलं कसायपायाळ । वसणसयसावयमणं मोहावतं महाभीमं ॥५॥ , व्याख्या-तस्य च' जीवस्य 'स्वकर्मजनितम्' आत्मीयकर्मनिवर्तितं, के ?-संसारसागरमिति वक्ष्यति तं, किम्भूतमित्यत आह-'जन्मादिजलं' जन्म-प्रतीतम्, आदिशब्दाजरामरणपरिग्रहः, एतान्येवातिवहुत्वाज्जलमिव जलं यस्मिन् स तथाविधस्तं, तथा 'कपायपातालं' कपाया:-पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालं यस्मिन् स तथाविधस्तं, तथा 'व्यसनशतश्वापदवन्तं' व्यसनानि-दुःखानि तादीनि वा तच्छतान्येव पीडाहेतुत्वात् श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं 'मणं'ति देशीशब्दो मत्वर्थीयः, उक्तं च "मतुयस्थमि मुणिज्जह आलं इलं मणं च मणुयं चे"ति, तथा 'मोहायत' मोहा-मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तं, तथा 'महाभीमम्' अतिभयानकमिति गाथार्थः ॥ ५६ ॥ किं च अण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ॥ ५७॥ व्याख्या-'अज्ञानं ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतः-वायुस्तेनेरित:-प्रेरितः, कः?-संयोगवियोगवीचिसन्तानो यस्मिन् स तथाविधस्तं,तत्र संयोगः-केनचित् सह सम्बन्धः वियोगः-तेनैव विप्रयोगः एतावेव सन्ततप्रवृत्तत्वात वीचयः-ऊर्मयस्तत्प्रवाहः-सन्तान इति भावना, संसरणं संसारः (स)सागर इव संसारसागरस्तं, किम्भूतम् ? 'अनोरपारम' अनाद्यपर्यवसितम् 'अशुभम्' अशोभनं विचिन्तयेत्, तस्य गुणरहितस्य जीवस्येति गाधार्थः॥ ५७॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy