________________
68
आवश्यकहारिभद्रीया व्याख्या-'शङ्कादिदोपरहितः' शङ्कनं-शङ्का, आदिशब्दात् कासादिपरिग्रहः, उक्तं च–'शङ्काकाङ्क्षाविचिकित्साऽन्य. दृष्टिप्रशंसापरपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः ( तत्त्वा० अ०. सू० १८) इति, एतेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोपास्तैः रहितः-त्यक्तः, उक्तदोपरहितत्वादेव, किं ?-प्रश(श्र)मस्थैर्यादिगुणगणोपेतः' तत्र प्रकर्षेण श्रमः प्रश्रमः-खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्प्रकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च-'सपरसमयकोसल्लं थिरया जिणसासणे पभावणया । आययणसेव भत्ती दंसणदीवा गुणा पंच ॥१॥' प्रश्रमस्थैर्यादय एव गुणास्तेषां गणः-समूहस्तेनोपेतो-युक्तो
। प्रशमादिना स्थैयादिनाच गुणगणेनोपेतः २, तत्र प्रशमादिगुणगणः-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य इत्थम्भूतः असौ भवति 'असम्मूढमनाः' तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, 'दर्शनशुद्ध्या' उक्तलक्षणया हेतुभूतया, क्क ?-ध्यान इति गाथार्थः ॥ ३२ ॥ उक्ता दर्शनभावना, साम्प्रतं चारित्र भावनास्वरूपगुणदर्शनायेदमाह
मवकम्माणायाणं पोराणविणिज्जर सुभायाणं । चारित्तभावणाएमाणमयत्तेण य समेइ ॥ ३३ ॥ व्याख्या-नवकर्मणामनादान'मिति नवानि-उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि-ज्ञानाव. रणीयादीनि तेषामनादानम्-अग्रहणं चारित्रभावनया 'समेति' गच्छतीति योगः, तथा 'पुराणविनिर्जरां' चिरन्तनक्षपणा.
१ स्वपरसमयकौशलं स्थिरता जिनशासने प्रभावना । आयतनसेवा भक्तिः दर्शनदीपका गुणाः पञ्च ॥१॥ मित्यर्थः, तथा शुभादान'मिति शुभं-पुण्यं सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं--ग्रहणं, किं ?-‘चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दान्नवकर्मानादानादि च 'अयत्नेन' अक्लेशेन ‘समेति' गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ?-'चर गतिभक्षणयोः' इत्यस्य 'अर्तिलूधूसूखनिसहिचर इत्रन्' (पा० ३-२१८४) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भावश्चारित्रम्, एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ॥ ३३ ॥ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूपगुणदर्शनार्थमाह
सुविदियजगरसभावो निस्संगो निभओ निरासो य । वेरग्गभावियमणो झाणमि सुनिचलो होइ ॥ ३४ ॥ व्याख्या-सुप्तु-अतीव विदितः-ज्ञातो जगतः-चराचरस्य, यथोक्त-'जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्' स्वो भावः स्वभावः,-'जन्म मरणाय नियतं वन्धुर्दुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः॥१॥' इत्यादिलक्षणो येन स तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह-'निर्भयः' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह-'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः ॥ ३४ ॥ उक्ता वैराग्यभावना । मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम् , अधुना देशद्वारव्याचिख्यासयाऽऽह
निचं चिय जुवइपसूनपुंसगकुसीलवजियं जहणो । ठाणं वियणं भणियं विसेसओ झाणकालं मि ॥ ३५॥ व्याख्या-'नित्यमेव' सर्वकालमेव, न केवलं ध्यानकाल इति, किं ?-'युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थान विजनं भणित'मिति, तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यक्स्त्रीति नपुंसक-प्रतीत कुत्सितं-निन्दितं शीलं-वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च-'जूइयरसोलमेंठा वट्टा उभायगादिणो जे य । एए होंति कुसीला वज्जेयवा पयत्तेणं ॥ १॥ युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं-रहितमिति विग्रहः, यतेः-तपस्विनः साधो, 'एकग्रहणे तज्जातीयग्रहण'मिति साध्व्याश्च योग्यं यतिनपुंसकस्य च, किं ?-स्थानम्-अवकाशलक्षणं, तदेव विशेष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम्-उक्तं तीर्थकरगणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात, विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः॥ ३५ ॥ इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम् , अधुना परिणतयोगादीनधिकृत्य विशेषमाह
थिरकयजोगाणं पुण मुणीण झाणे सुनिचलमणाणं गामंमि जणाइपणे सुपणे रपणे व ण विसेसो ॥ ३६॥
घृतकाराः कलाला मेपठाश्चहा बहामका इत्यादयो ये च । एते भवन्ति कुशीला बर्जयितव्याः प्रयत्नेन ॥१॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org