SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 63 भावश्यवहारिभद्रीया ना पाम् , अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदपरिष्टाद्धक्ष्याम इति गाथार्थः ॥ ३ ॥ साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह अंतोमुहत्तपरओ चिंता झाणंतरं व होजाहि । सुचिरपि होज बहुवत्थुसंकमे माणसंताणो ॥ व्याख्या-'अन्तर्मुहूर्तात् परत' इति भिन्नमुहूर्तादूर्व 'चिन्ता' प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत, तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ?-भावनानुप्रेक्षात्मक चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण नि. रूपयन्नाह-'सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत् बहुवस्तुसङ्क्रमे सति 'ध्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि २ आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः ॥ ४ ॥ इत्थं तावत् सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम् , अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह अहं रुई धम्म सुक्कं झाणाइ तत्थ अंताई । निष्वाणसाहणाई भवकारणमहरुबाई ॥ ५ ॥ व्याख्या-आर्त रौद्रं धर्म्य शुक्ल, तत्र ऋतं-दुःखं तन्निमित्तो दृढाध्यवसायः, ऋते भवमात क्लिष्टमित्यर्थः, हिंसाद्यतिौर्यानुगतं रौद्र, श्रुतचरणधर्मानुगतं धर्म्य, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम् , अमूनि ध्यानानि वर्तन्ते, अधुना फलहेतुत्वमुपदर्शयति-तत्र' ध्यानचतुष्टये 'अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशक्ले इत्यर्थः, किं ?-'निर्वाणसाधने' इह निर्वृतिः निर्वाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः, ततश्च-'अट्टैणं तिरिक्तगई रुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं ॥१॥ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा 'भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः(त्तः)तिर्यग्नरकभवग्रह इति गाथार्थः ॥५॥ साम्प्रतं 'यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषयलक्षणभेदतश्चतुर्की, उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ वेदनायाश्च ॥ विपरीतं मनोज्ञादीनां ॥ निदानं च ॥ (तत्त्वा० अ०९ सू० ३१-३२३३-३४) इत्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह अमणुषणाणं सदाइविसयवस्थूण दोसमहलस्स । धणियं विभोगचिंतणमसंपओगाणुसरणं च ॥ ६ ॥ व्याख्या-'अमनोज्ञानामिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामित्यत आह-'शब्दादिविषयवस्तूना'मिति शब्दादयश्च ते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेपां, किं ?-सम्प्राप्तानां सतां 'धणिय' अत्यर्थ 'वियोगचिन्तन' विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वि आतेन तिर्यग्गतिः रौद्ध्यानेन गम्यते नरकः । धर्मेण देवलोकः सिद्धिगतिः शुक्लध्यानेन ॥१॥ योगः स्यादिति भावः ?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगाभाव इति ?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्तेरिति गाथार्थः ॥ ६ ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह तह सूलसीसरोगाइवेयणाए व(वि) जोगपणिहाणं । तदसंपभोगचिंता तप्पडियाराजलमणस्स ॥७॥ व्याख्या-'तथेति धणियम्-अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूलशिरोरोगी प्रसिद्धौ, आदिशब्दाच्छेपरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना २, वेद्यत इति वेदना तस्याः, किं ?-'वियोगप्रणिधानं' वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-'तदसम्प्रयोगचिन्ते'ति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाधत आह-तत्प्रतिकारे-वेदनाप्रतिकारे चिकित्सायामाकुलं-व्यग्रं मन:-अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाद्यातध्यानमिति गाथार्थः ॥ ७॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह इहाणं विसयाईण वेयणाए य रागरत्तस्स । अवियोगजझवसाणं तह संजोगाभिलासो य॥८॥ व्याख्या-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा 'वेदनायाश्च' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy