________________
19
आवश्यक हारिभद्रीया
दसणायारं चरणकुसीलो इमो होइ ॥ २ ॥ कोउय भूईकम्मे परिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उबजीव विज्जमंताई ॥ ३ ॥ सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिि ॥ ४ ॥ सुविणयविज्जाकहियं आईखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ॥ ५ ॥ तीयाइभावहणं होइ णिमित्तं इमं तु आजीवं । जाइकुल सिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥ ६ ॥ कक्ककुरुगा य माया णियडीए जं भणति तं भणियं । श्रीलक्खणाइ लक्खण विज्जामंताइया पयडा ॥ ७ ॥ ' ' तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च- 'संसत्तो य इदाणीं सो पुण गोभत्तलदए चेव । उच्चिद्यमणुच्चि जं किंची छुम्भई सवं ॥ १ ॥ एमेव य मूलत्तरदोसा गुणा जत्तिया केइ । ते तम्मवि सन्निहिया संसत्तो भण्णई तम्हा ॥ २ ॥ राय विदूसगमाई अहवावि णडो जहा उ बहुरूवो ।
१ दर्शनाचारं चरणकुशीलोऽयं भवति ॥ २ ॥ कौतुकं भूतिकर्म प्रश्नाप्रभं निमित्तमाजीवम् । कल्ककुहुकञ्च लक्षणं उपजीवति विद्यामत्रादीन् ॥ ३ ॥ सौभाग्यादिनिमित्तं परेषां खपनादि कौतुकं भणितम् । ज्वरितादये भूतिदानं भूतिकर्म विनिर्दिष्टम् ॥ ४ ॥ स्वमविद्याकथितमाइ ङ्खिनीघण्टिकादिकथितं वा । यत् शास्ति अन्येभ्यः प्रश्नाप्रश्नं भवत्येतत् ॥ ५ ॥ अतीतादिभावकथनं भवति निमित्तमिदं व्वाजीवनम् । जातिकुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ॥ ६ ॥ कल्ककुहुका च माया निकृत्या यद्भणन्ति तद्भणितम् । स्त्रीलक्षणादि लक्षणं विद्यामन्त्रादिकाः प्रकटाः ॥ ७ ॥ संसक्तचेदानीं स पुनर्गोभक्तलन्दके चैव । उच्छि ष्टमनुच्छिष्टं यत्किञ्चित् क्षिप्यते सर्वम् ॥ १ ॥ एवमेव च मूलोत्तरदोपाश्च गुणाश्व यावन्तः केचित् । ते तस्मिन् सन्निहिताः संसक्तो भव्यते तस्मात् ॥ २ ॥ राजविदूषकादयोऽथवापि नटो यथा तु बहुरूपः ।
अहवा विमेलगो जो हलिद्दरागाइ बहुवण्णो ॥ ३ ॥ एमेत्र जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलइ । तारिसओ च्चिय होति संसन्तो भण्णई तम्हा ॥ ४ ॥ सो दुविकप्पो भणिओ जिणेहि जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकलित अण्णो || ५ || पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिडो संसत्तो संकिलिडो उ ॥ ६ ॥ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ॥ ७ ॥ एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च' यथाछन्दः - यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च- "रेस्सुत्तमायरंतो उस्सुतं चैव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगठ्ठा ॥ १ ॥ उस्सुत्तमणुवदिहं सच्छंदविगम्पियं अणणुबाइ । परतत्ति पवर्त्तिति णेओ इणमो अहाछंदो ||२|| सच्छंदमइविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहिगारवेहिं मज्जइ तं जाणाही अहाछंद ॥ ३ ॥ एते पार्श्वस्थादयोऽवन्दनीयाः, क्व ? - जिनमते, न तु लोक इति गाथार्थः ॥ अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति १, उच्यते
१ अर्थवाऽपि मेलको यो हरिद्वरागादिः बहुवर्णः ॥ ३ ॥ एवमेव यादृशेन शुद्धेनाशुद्धेन वाऽपि संवसति । तादृश एव भवति संसक्तो भण्यते तस्मात् ॥ ४ ॥ स द्विविकरूपो भणितो जिनैर्जितरागद्वेपमोहैः । एकस्तु संक्लिष्टोऽसंक्लिष्टस्तथाऽन्यः ॥ ५ ॥ पञ्चाश्रवप्रवृत्तो यः खलु त्रिभिगौरवैः प्रतिबद्धः । स्त्रीगृहिमिः संक्लिष्टः संसक्तः संक्लिष्ठः स तु ॥ ६ ॥ पार्श्वस्यादिकेषु संविनेषु च यत्र मिलति तु । तत्र तादृशो भवति प्रियधर्मा अथवा इतरस्तु ॥ ७ ॥ २ उत्सूत्रमाचरन् उत्सूत्रमेव प्रज्ञापयन् । एप तु यथाच्छन्द इच्छाछन्द इति एकार्थी ॥ १ ॥ उत्सूत्रमनुपदिष्टं स्वच्छन्द विकल्पितमननुपाति । परतसिं प्रवर्त्तयति ज्ञेयोऽयं यथाच्छन्दः || २ || स्वच्छन्दमतिविकल्पितं किञ्चित्सुखात विकृतिप्रतिबद्धः । त्रिभिगौरवैर्माद्यति तं जानाहि यथाच्छन्दम् ॥ ३ ॥ पात्थाई बंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥
११०८ ॥
व्याख्या – 'पार्श्वस्थादीन' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः - अहो अयं पुण्यभागित्येचं लक्षणा सानभवति अपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा - कर्मक्षयलक्षणा सा न भवति, तीर्थंकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति काय:- देहस्तस्य क्लेशः - अवनामादिलक्षणः कायक्लेशस्तं कायक्लेशम् 'एवमेव' मुधैव 'करोति' निर्वर्तयति, तथा क्रियत इति कर्मज्ञानावरणीयादिलक्षणं तस्य वन्धो- विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः - स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मवन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च दोषानवामुते, कथं ? - भगवत्प्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ॥ ११०८ ॥ एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह -
जे भरभठ्ठा पाए उडुंति बंभयारीणं । ते होंति कुंटमंदा बोही य सुदुलहा तेसिं ॥ ११०९ ॥ व्याख्या -ये- पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथैौघतः संयमवाचकश्च, 'पाए उड्डिति वंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्दनिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यथाकथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org