________________
214
भावश्यकहारिभद्रीया गाथा भाविताऽथैवेत्यभिहितमानुपङ्गिकं, प्रकृतं प्रस्तुमः, तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गत. मेव विधिमभिधातुकाम आह
तत्थ समणोवासओ पुवामेव मिच्छत्साओ पडिकमइ, संमत्तं उवसंपज्जइ, नो से कप्पह अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नम. सित्तए वा पुटिव अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पया वा, नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकतारेणं, से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे (सूत्रम् )॥ __ अस्य व्याख्या-श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः 'पूर्वमेव' आदावेव श्रमणोपासको भवन् मिथ्यात्वात्-तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति-निवर्त्तते, न तन्निवृत्तिमात्रमत्राभिप्रेत, किं तर्हि ?, तन्निवृत्तिद्वारेण सम्यक्त्वं-तत्त्वार्थश्रद्धानरूपं उप-सामीप्येन प्रतिपद्यते,सम्यक्त्वमुपसम्पन्नस्य सतः न 'से' तस्य 'कल्पते' युज्यते अद्यप्रभृति' सम्यक्त्वप्रतिपत्तिकालादारभ्य, किं न कल्पते ?-अन्यतीथिकान्-चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानिरुद्रविष्णुसुगतादीनि अन्यतीर्थिकपरिगृहीतानि वा(अर्हत्)चैत्यानि-अर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा नमस्कर्तुवा, तत्र वन्दनं-अभिवादनं, नगरकरणं-प्रणामपूर्वकं प्रशस्तवनिभिर्गुणोत्कीर्तनं, को दोषः स्यात् ?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्व-आदौ अनालप्तेन सता अन्यतीर्थिकैस्तामेवालप्तुं वा संलप्तुं वा, तत्र सकृत् सम्भाषणमालपनं पौनःपुन्येन संलपनं, को दोपः स्यात् ?, ते हि तप्ततरायोगोलकल्पाः
देक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमन कुयुः, अथ च श्रावकस्य स्वजनपरिजनोऽगृहीतसमयसारस्तैः सह सम्बन्धं यायादित्यादि, प्रथमालसेन त्वसम्भ्रमं लोकापवादभयात् कीदृशस्त्व मित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानां अशनं-घृतपूर्णादि पानं-द्राक्षापानादि खादिमंत्रपुषफलादि स्वादिम -कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वा न कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति ?, न, अन्यथा राजाभियोगेनेति-राजाभियोगं मुक्त्वा वलाभियोग मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेणगुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति-राजाभियोगादिना दददपि न धर्ममतिकामति ।
इह चोदाहरणानि, 'कहं रायाभिओगेण देतो णातिचरति धम्म ?, तत्रोदाहरणम्-हत्थिणाउरे नयरे जियसत्तू राया, त्तिओ सेट्ठी नेगमसहस्सपढमासणिओ सावगवण्णगो, एवं कालो वच्चइ, तत्थ य परिवायगो मासंमासेण खमइ,
कथं राजाभियोगेन ददनातिचरति धर्म हस्तिनापुरे नगरे जितशत्रू राजा, कार्तिकः श्रेष्ठी निगमसहस्रप्रथमासनिकः श्रावकवर्णकः, एवं कालो मजति, तन्त्र च परिव्राजको मासंमासेन क्षपयति, , तं सबलोगो आढाति, कत्तिओ नादाति, ताहे से सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अण्णया रायाए निमंतिओ पारणए नेच्छति, बहसो २ राया निमंतेइ ताहे भणइ-जइ नवरं मम कत्तिओ परिवेसेड तो नवरं जेमेमि. राया भणइ-एवं करेमि; राया समणूसोकत्तियस्स घरंगओ, कत्तिओभणइ-संदिसह, राया भणति-गेरुयस्स परिवेसेहि. कत्तिओ भणति-न वट्टइ अम्हं, तुम्ह विसयवासित्ति करेमि, चिंतेइ-जइ पबइओ होतो न एवं भवंतं, पच्छा णेण परि घेसियं, सो परिवेसेजंतो अंगुलिं चालेति, किह ते ?, पच्छा कत्तिओ तेण निबेएण पबइओ नेगमसहस्सपरिवारो मुणिसुषयसमीवे, वारसंगाणि पढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिवायओ तेणाभिओगेण आभिओगिओ एरावणो जाओ, पेच्छिय सकं पलाओ गहिउं सक्को विलग्गो, दो सीसाणि कयाणि, सक्कावि दो जाया, एवं जावइयाणि सीसाणि विउधति तावतियाणि सक्को विउबति सक्करूवाणि, ताहे नासिउमारद्धो.
तं सर्वलोक माद्रियते, कार्तिको नाद्रियते, तदा तसै स गैरिकः प्रद्वेषमापनश्छिद्राणि मार्गयति, अन्यदा राज्ञा निमश्रितः पारणके नेच्छति, बहुशो २ राजा निमन्त्रयति तदा भणति-यदि पर कार्तिकः मा परिवेषयति तर्हि नवरं जेमामि, राजा भणति-एवं करोमि, राजा समनुष्यः कार्तिकस्य गृहं गतः, कार्निको भणति-संदिश, राजा भणति-ौरिकं परिवेपय, कार्तिको मणति-न वर्त्ततेऽस्माकं, युप्मद्विषयवासीति करोमि, चिन्तयति-यदि प्रबजितोऽभविष्यं - नैवमभविष्यत् , पश्चावनेन परिवेपितं, सपरिवेष्यमाणोऽङ्गुलिं चालयति, कथं तव ?, पश्चात् कार्तिकरतेन निदेन प्रमजितो नैगमसहसपरिवारो मुनिसुव्रत. समीपे, द्वादशाङ्गानि पठितः, द्वादश वर्षाणि पर्यायः, सौधर्मे करूपे शक्रो जातः, स परिबाट तेनाभियोगेनाभियोगिक ऐरावणो जातः, दृष्ट्वा च शक्रं पलायितः गृहीत्वा शक्रो विलमः, देशी कृते, शक्री अपि द्वौ जातो, एवं यावन्ति शीर्षाणि विकुर्वति तावन्तिः शक्ररूपाणि विकुर्वति शक्रः, तदा नष्टमारब्धः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org