________________
210 भावश्यकहारिभद्रीया यादयः, तथा चोक्तम्-"पञ्चेन्द्रियाणि त्रिविधं बलं च, उछासनिश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्ता, एषां वियोगीकरणं तु हिंसा ॥१॥" तेषां वधः प्राणवधो [न] जीववधस्तस्मिन् , मृषा वदनं मृपावादस्तस्मिन् , असदभिधान इत्यर्थः, 'अदत्त'ति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, 'मेहुण'त्ति मैथुने अब्रह्मसेवने यदुक्तं भवति, 'परिग्गहे चेव'त्ति परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां साधूनां मुलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेतव्याःअनुसरणीयाः, इयमत्र भावना-श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविध'न्ति न करेति न कारवेइ ३ करतंपि अण्णं णाणुजाणेति, 'तिविहंति मणेणं वायाए काएणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ॥ २४३ ॥ इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानं, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतः प्रतिपिपादयिषुराहसावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया गिहिणोवि सुहाईपावंति ॥ १५५६॥ साभिग्गहाय निरभिग्गहा य ओहेण सावया दुविहा। ते पुण विभजमाणा अट्टविहा हुंति नायव्वा ॥ १५५७ ॥ दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ १५५८ ॥ एगविहं दुविहेणं इविक्कविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ १५५९ ॥ पणयचउकंच तिगंदगंच एगंच गिण्हर वयाई। अहवाऽवि उत्तरगणे अहवाऽपि न गिट्टई किंचि॥११ निस्संकियनिकंखिय निव्वितिगिच्छा अमूढदिट्ठीय । वीरवयणमि एए बत्तीसं सावया भणिया ॥१५६१ ॥ __ व्याख्या-तत्राभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावक इति, उक्तं च-“यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥१॥" श्रावकाणां धर्मः२ तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ?-धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धितीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः ॥१५५६॥ तत्र+साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहाः-प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्त्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वक देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओघेन-सामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विविधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इति गाथार्थः॥१५५७॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह-'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविध मिति कृतकारितं 'त्रिविधेनेति मनसावाचा कायेनेति, एतदुक्तं भवति-स्थूलप्राणातिपातं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात् , तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद्, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रजिताप्रबजितयोरभेदापत्तेरिति भावना, अत्राह-ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मान्नोक्तं नियुक्तिकारेणेति ?, उच्यते, तस्य विशेषविषयत्वात् , तथाहि-किल यः प्रवित्रजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किञ्चिद् वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपातादिकं चेत्यादि, न तु सकलसावधव्यापारविरमणमधिकृत्येति, ननु च नियुक्तिकारेण स्थूलप्राणातिपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणमि एए बत्तीसं सावया भणिया' इति वचनादन्यथा पुनरधिकाः स्युरिति ?, अत्रोच्यते, सत्यमेतत् , किंतु बाहुल्यपक्षमेवाङ्गीकृत्य तियुक्तिकारेणाभ्यधायि, यत् पुनः कचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्टु समाचार्यनुपाति तन्नोक्तं, बाहुल्येन तु द्विविधं त्रिविधेनेत्यादिभिरेव षभिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'दुविहं तिविहेण वितियओ होति'त्ति 'द्विविध' मिति स्थूलप्राणातिपातं न करोति न कारयति 'द्विविधेनेति मनसा वाचा, पद्वा मनसा कायेन, यद्वा वाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः,, तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्तीति भावना, एवं शेषविकल्या अपि भावनीया इति, 'दुविहं एगविहेणं'ति द्विविधमेकविधेन, 'एक्कविहं चेव तिविहेणं ति एकविधं चैव त्रिविधेनेति गाथार्थः ॥ १५५८ ॥ 'एगविहं दुविहेणं ति एकविधं द्विविधेन 'एकेक्कविहेण छ?ओ होइ' एकविधमेकविधेन षष्ठो भवति भेदः, 'उत्तरगुण सत्तमओ'त्ति प्रतिपन्नोत्तरगु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org