SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥२९॥ मावश्यक-हारिभद्रीयवृत्तिः द्वितीयगाथाब्याख्या-इह लब्धितोऽवस्थानं चिन्त्यते-अद्धा-अवधिलब्धिकालः, अत्र अद्धाया:-कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ 'षट्पष्टिसागरा' इति षट्रषष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात मनागधिकानि 'कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादायका समयो जघन्येनावस्थानमिति, तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोग'तो'ऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्ती सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः।। ५८ ॥ एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽहबुड्ढी वा हाणी वा, चउब्धिहा होइ खिसकालाणं । दवेसु होइ दुविहा, छविह पुण पल्लवे होइ ॥५९॥ व्याख्या-तत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति, सा च वृद्धि र्हानिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा-"असंखेजभागवुड्डी वा संखेज्जभागवुडीवा संखेज्जगुणवुड्डी वा असंखेजगुणवुड्डी वा," एवं हानिरपि, न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिा , एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिानिवळ, कथम् ?-अनन्तभागवृद्धि; अनन्तगुणवृद्धिा, एवं हानिरपि, द्रव्यानन्त्यादिति भावार्थः। तथा पडिधा 'पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धि हानिति वर्तते, पर्यायानन्त्यात्, कथम् ?-अनन्त न केवलं काल इत्यपिशब्दार्थः, भादिना आधारादिग्रहः गुणपर्यायग्रहो वा. २ गुणत उत्पन्नेऽपि जघन्येन समयान्तरे प्रतिपातात् मरणेन. ३ मन्तरसमय इत्यर्थः. ४ असंख्येयभागवृद्धिर्वा संख्येयभागवृद्धिा संख्येयगुणवृद्धिर्वा असंख्येयगुणवृद्धिर्वा (प्रज्ञापनाया) * तत्र. + अन्यत्र च तोपयोगरवे. द्विविधा. भागवृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिःसंख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानिरपि । आह-क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामपि अनन्तभागादिवृद्भिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्या. यमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुगलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ? यस्मात्म्वक्षेत्रादनन्तगुणाः पुदलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिर्हानिर्वा तस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात् , विचित्रावधिनिबन्धनाच्चेति गाथार्थः॥५९॥ एवं तावञ्चलद्वारं व्याख्यातम् , इदानीं तीव्रमन्दद्वा रावयवार्थ व्याचिख्यासुरिदमाह फडा ये असंखिज़ा, संखेज्जा यावि एगजीवस्स । एकप्फडवओगे, नियमा सव्वत्थ उवउत्सो॥६०॥ फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ॥ ६१ ॥ प्रथमगाथाव्याख्या-इह फडकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफडुकानीव फडकानि, तानि चासंख्येयानि संख्येयानि चैकजीवस्य, तत्रैकफडकोपयोगे सति नियमात् 'सर्वत्र' सर्वैः फडकैरुपयुक्ता भवन्ति, एकोपयोगत्वाजीवस्य, लोचनद्वयोपयोगवद ,प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह-तीव्रमन्दद्वारं प्रक्रान्तं 1 अनम्तभागगुणवृविहानी द्रव्ये, पर्यायषु षट्स्थानगा वृद्धिर्हानिर्वा २ द्वाभ्यां नेत्राभ्यां निरीक्षते नरो युगपत् , न चानेकोपयोगता, तद्भवत्राप्यनेकस्पर्धकै. रुपयोगेऽप्येकदा नानेकोपयोगता, एकनेत्रोपयोगे च उपयोगो द्वयोरेव, युगपदुपयुज्यमानस्वात. ३ उपयोगः कार्य, न च दीप एकया दिशा प्रकाशयति केवलं, किं तु सर्वाभिः स्वपर्याया. + कडाइ । युक्तो भवति. विहाय फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फडुको तीनौ, तथेतरौ मन्दौ, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥६०॥ द्वितीयगाथाव्याख्या-फडकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभयस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह-आनुगामकाप्रतिपातिफडकयो का प्रतिविशेषः, अनानुगामुकप्रतिपातिफडुकयोति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामुक तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एवे, नेत्थमनानुगामुकमिति गाथार्थः॥ ६१॥ व्याख्यातं तीव्रमन्दद्वारं, इदानी प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहबाहिरलंभे भज्जो, दव्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय,तं उिभयं एगसमएणं ॥ १२॥ अभितरलडीए, उ तदभयं नत्थि एगसमएणं । उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥ ३॥ _प्रथमगाथाव्याख्या-तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वाँ विच्छिन्नः स बाह्यः तस्य लाभो विशेषस्पर्धकसनावे तीव्रत्वमवधेरितरथा चेतरत् मध्यमे च मिश्रति कारण तीवादः स्पर्धकान्येवेति तदर्शने न प्रक्रमविरोध इत्यर्थः २ भसंख्येयानां संख्येयानां वोपनानां स्पर्धकानामवस्थानात् क्षेत्रान्तरेऽपि. ३ आनुगामुकादीनि.. ा कैवस्याः भवक्षयात् स्थानापेक्षया भवान्तरेऽवस्थाममा श्रित्य च ५ प्रतिपातिनोऽप्यानुगामुकत्वदर्शनायेदम्. ६ स्पर्धकरूपकारणाभिधानद्वारेण.. अनुकसमुच्चयार्थत्वात् परिमण्डलाकारोऽपि. * तद्विपरीतानि च + विशेषः । तदुभयं चेग० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy