SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ बावश्यक-हारिभद्रीयवृत्तिः ॥११॥ संचरतेहिं ॥१॥" तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः ॥४३४ ॥ साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाहनिव्वाणं१चिइगागिई जिणस्स इक्खागसेसयाणंचर।सकहा३थूभ जिणहरे४ जायगपतेणाहिअग्गित्ति ६ ४३५ व्याख्या-'निर्वाणमिति' भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः । 'चितिकाकृतिरिति' ते तिस्रः चिता वृत्तव्यम्रचतुरस्राकृतीः कृतवन्तः इति, एका पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्निं प्रक्षिप्तवन्तः, तत एव निबन्धनालोके 'अग्निमुखा वै देवाः' इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते सति मेघकुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः । 'सकथेति' सकथा-हनुमोच्यते, तत्र दक्षिणां हनुमां भगवतः संबन्धिनी शको जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषलोकास्तु तदस्मना पुण्डूकाणि चक्रुः, तत एव च प्रसिद्धिमुपागतानि । 'स्तूपा जिनगृहं चेति' भरतो भगवम्तमुद्दिश्य वर्धकीरलेन योजनायामं त्रिगन्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्रमाणयुक्ताः चतुर्विंशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च, मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां भगवतःशेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान् यन्त्रपुरुषान् तद्वारपालांश्चकार, दण्डरलेन अष्टापदं च सर्वतश्छिन्नवान् , योजने योजने अष्टौ पदानि च कृतवान् , सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तरतो विज्ञेयमिति। याचकास्तेनाहिताग्नयः' इत्यस्य व्याख्यादेवर्भगवत्सकथादौ गृहीते सति श्रावका देवान् अतिशयभक्त्या याचितवन्तः, देवा अपि तेषां प्रचुरत्वात महता यलेन याचनाभिद्रुता आहुः-अहो याचका अहो याचका इति, तत एव हि याचका रूढाः, ततोऽग्निं गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च प्रसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिःभगवतः संबन्धिभूतः सर्वकुण्डेषु संघरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुण्डाग्नौ इति, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्थः ॥४३५ ॥ साम्प्रतमप्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह थूभसय भाउगाण चउवीसं चेव जिणहरे कासी। सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ ४५ ॥ (मू० भा०) गमनिका-स्तृपशतं भ्रातृणां भरतः कारितवान् इति,तथा चतुर्विशति चैव जिनगृहे-जिनायतने (नानि) कासीति' कृतवान् , का इत्याह-सर्वजिनानां प्रतिमा वर्णप्रमाणेः 'निजैः' आत्मीयरिति गाथार्थः ॥ साम्प्रतं भरतवक्तव्यतानिबद्धां संग्रहगाथां प्रतिपादयन्नाह आयंसघरपवेसो भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं संवेगो नाण दिक्वा य ॥ ४३६ ॥ अस्या भावार्थः कथानकादवसेयः, तच्छेदम्-भगवतो निषाणं गयस्स आययणं काराविय भरहो अउज्झमागओ, कालेण १ भगवतो निर्वाणं गतस्य भायतनं कारयित्वा भरतोऽयोध्यामागतः, कालेन. ये अप्पसोगो जाओ, ताहे पुणरवि भोगे भुंजिउ पवत्तो, एवं तस्स पंच पुषसयसहस्सा अइकता भोगे भुंजंतस्स, अन्नया कयाइ सवालंकारभूसिओ आयंसघरमतिगतो, तत्थ य सबंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलि. जयं पडियं, तं च तेण न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिलुिमि पडिया, ताहे असोभतिआ दिहा, ततो कडगंपि अवणेइ, एवमेकेकमवणेतेण सबमाभरणमवणीअं, ताहे अप्पाणं उच्चियपउमं व पउमसरं असोभतं पेच्छिय संवेगावण्णो परिचिंति पयत्तो-आगंतुगदवेहिं विभूसियं मे सरीरगति न सहावसुंदरं, एवं चिन्तन्तस्स अपुरकरणज्झाणमुवहिअस्स केवलनाणं समुपण्णति । सक्को देवराया आगओ भणति-दवलिंगं पडिवजह, जाहे निक्खमणमहिमं करेमि, ततो तेण पंचमुहिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवणीअं, दमहिं रायसहस्सेहिं समं पवइओ । सेसा नव चक्किणो सहस्सपरिवारा निक्खंता । सक्केणं वंदिओ, ताहे भगवं पुवसयसहस्सं केवलिपरियागं पाउ चाल्पशोको जातः , तदा पुनरपि भोगान् भोक्तुं प्रवृत्तः, एवं तस्य पञ्च पूर्वशतसहस्राणि अतिक्रान्तानि भोगान् भुञानस्य, अन्पदा कदाचित सर्वालङ्कारविभूषित आदर्शगृहमतिगतः, तत्र च सर्वाजिकः पुरुषो दृश्यते, तस्यैवं प्रेक्षमाणस्याङ्गुलीयकं पतितं, तच्च तेन न ज्ञातं पतितं, एवं तस्य प्रलोकमानस्य यदा साऽङ्गुलिईष्टौ पतिता, सदाऽशोभमाना दृष्टा, ततः कटकमपि अपनयति, एवमेकैकमपनयता सर्वमाभरणमपनीतं, तदाऽऽस्मानं उचितपनं इव पनसरः अशोभमानं प्रेक्ष्य संवेगापनः परिचिन्तितुं प्रवृत्तः-आगन्तुकद्रव्यैः विभूषितं मे शरीरकमिति न स्वभावसुन्दरम् , एवं चिन्तयतः अपूर्वकरणध्यानमुपस्थितस्य केवलज्ञानं समुत्पन्नमिति । शको देवराज भागतो भणति-द्रव्यलिङ्गं प्रतिपद्यस्व, यतः निष्क्रमणमहिमानं करोमि, ततस्तेन पञ्चमुष्टिकः लोचः कृतः, देवतया रजोहरणप्रतिग्रहादि उपकरणमुपमीतं, दशभिः राजसहप्रैः समं प्रवजितः । शेषा नव चक्रिणः सहस्त्रपरिवारा निष्क्रान्ताः । शक्रेण वन्दितः, तदा भगवान् पूर्वशतसहस्रं केवलिपर्याय पालयित्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy