SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [२.२१-२३] शृङ्गारशतकम् गच्छामः सद्म यावद् विकसितकुमुदेन्दीवरालोकिनीनाम् । आक्रम्याऽऽक्रम्य रूपं झटिति न जरया लुच्यते प्रेयसीनाम् ॥२१॥ हे राजन् !, तृष्णाम्बुराशेः तृष्णासमुद्रस्य कश्चिदवसानं प्रान्तं [जगति ] गतः १ । अपि तु न । वा अथवा, यौवने स्ववपुषि गलिते सति प्रभूतैरप्यर्थः प्रचुरैरपि धनैः कः सानुरागो भवति ? । अपि तु न कोऽपि । हे राजन् ! स्वं सम गच्छामः यावत् प्रेयसीनां वल्लभानां रूपं झटिति शीघ्रं जरया आक्रम्याक्रम्य न लुच्यते न लुण्ट्यते । किं० प्रेयसीनाम् ? । विकसितकुमुदेन्दीवरालोकिनीनाम् । विकसिते कुमुदेन्दीवरे विकसितकुमुदेन्दीवरे, तयोर्यदालोको यासां ता विकसितकुमुदेन्दीवरालोकिन्यः, तासाम् । विकसितकमलदलनयनानामित्यर्थः ॥ २१॥ अथ वर्षासमये पथिकस्वरूपमाह उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयतु ॥ २२ ॥ पथिकः दृष्टिं क्क पातयतु ? । कथम् ? । उपरि आकाशे घनं निबिडं घनपटलम् । तिर्यग् गिरयोऽपि नर्तितमयूराः नर्तिता मयूरा यस्मिंस्ते (छ. येषु ते) नर्तितमयूराः । इयं क्षितिरपि कन्दलधवला कन्दलैः कन्दैः धवलाः कन्दलधवलाः प्रसरितकन्दा इत्यर्थः । एवंविधं स्वरूपं दृष्ट्वा पथिकस्य हृदयं समुल्ललास । कया ? । स्वगृहयानोत्कण्ठया ॥ २२ ॥ अथ पुनरपि मनस्विनां स्वरूपमाहसंसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां __ तत्त्वज्ञानामृताम्भालतलुलितधियां यातु कालः कदाचित् । नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसंभोगिनीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यतानाम् ॥ २३ ॥ अस्मिन्नसारे संसारे पण्डितानां विदुषां द्वे गती । किं० संसारे ? । परिणतितरले परिणामचञ्चले । द्वे के गती पण्डितानाम् ? । कदाचित् तत्त्वज्ञानामृताम्भःप्लतलुलितधियां कालो यातु । तत्त्वस्य ज्ञानं तत्त्वज्ञानं शुक्ल (क. छ. शुभ; ट. मुक्त) ध्यानमित्यर्थः । तत्त्वज्ञानमेव अमृताम्भः तत्त्वज्ञानामृताम्भः, तेन प्लुता भिन्ना लुलिता च धीर्बुद्धिर्येषाम् , ते तत्त्वज्ञानामृताम्भःप्लुतललितधियः, तेषाम् । नो चेद् एवं न । मुग्धाङ्गनानां मनोहारिणीनां स्त्रीणाम् । स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोधतानां कालो यातु । कोऽर्थः ? । स्थूला या उपस्थस्थली नितम्बस्थली स्थूलोपस्थस्थली, तासु स्थगितो योऽसौ करतलः स्थगितकरतलः, तस्य स्थगितकरतलस्य, संस्पर्शो योऽसौ लोलो लौल्यं बिभ्राणः, तत्रोद्यताः, स्थगितकरतलस्पर्शलोलोद्यताः, १ घ. आलोकनीनाम् । २ ख. घ. लुण्ट्यते । ३ क. छ. पातयति । ४ क. छ. 'लुत। ७ शतकत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy