SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिकृत-शतकत्रयम् [३.६६-६८] ... हे आत्मन् ! अनुपहतविधिश्रेयसौ पुरुषाणां एष पन्थाः । न उपहतः न निराकृतः अनु. पहतः, तेन अनुपहतेन विधिना मार्गेण श्रेयो येषां ते अनुपहतविधिश्रेयसः तेषां । मुक्तानामित्यर्थः । तेषां एष मार्गः। क एष मार्गः ? । प्राणाघातानिवृत्तिः जीवहिंसाविरमः । परधनहरणे परद्रव्यापहारे संयमः। 'यम उपरमे' सं-पूर्वः । संयमनं संयमः परिहारः । पुनः किम् ? । सत्यवाक्यम् । पुनः किम् ? । काले शत्या प्रदानम् । पुनः किम् ? । परेषां युवतिजनकथामूकभावः । पुनः किम् ?। तृष्णाश्रो(स्रो)तोविभङ्गः लोभप्रवाहविच्छेदः । चान्यत् । गुरुषु विनयः । पुनः किम् ? । सर्वभूतानुकम्पा सर्वप्राणिदया । किंभूता प्राणिदया ? । सर्वशास्त्रेषु सामान्या समानस्य भावः सामान्यं तदस्ति यस्यां सा] सामान्या समानभावा इत्यर्थः । मोक्षमार्गिणां एष मार्गः ॥६५॥ मातर्लक्ष्मि भजस्व कं चिदपरं मत्कासिणी मा स्म भूर् भोगेभ्यः स्पृहयालवो न हि वयं का निःस्पृहाणामसि । सद्यःस्यूतपलाशंपत्रपुटिकापात्रे पवित्रीकृते भिक्षासक्तुभिरेव संप्रति वयं वृत्ति समीहामहे ॥ ६६ ॥ . हे मातर्लक्ष्मि ! कं चिदपरं भजस्व । मत्काशिणी मा स्म भूः मा भूयाः । वयं भोगेभ्यो न स्पृहयालवः नेच्छवः । निःस्पृहाणां निरीहाणां त्वं कासि । वयं मिक्षासक्तुभिरेव संप्रति इदानीं वृत्तिं दिनगमनिकां समीहामहे वाञ्छामहे(मः)। क सति ? । सद्यस्तत्कालं स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृते सति । यद्येवमस्माकं स्थितिस्तदा वयं त्वया किं कुर्मः ॥६६॥ यूयं वयं वयं यूयमित्यासीन्मतिरावयोः । किंजातमधुना येन यूयं यूयं वयं वयम् ॥ ६७ ॥ हे मित्र ! आवयोरिति मतिरासीत् इयत्कालम् । इतीति किम् ? । यूयं वयं, वयं यूयम् । अधुना इदानीं किं जातम् । येन यूयं यूयं वयं वयम् ॥ ६७॥ बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते । संप्रत्यन्ये वयपरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ ६८ ॥ हे बाले हे सुन्दरि ! तावकीनं लीलामुकुलितम् । अमी मन्थरा दृष्टिपाताः अस्मासु किं क्षिप्यन्ते । विरम विरम । एषः ते तव श्रमो व्यर्थो निरर्थकः । संप्रति वयं अन्ये ते न भवामः । अस्माकं बाल्यमुपरतम् (हं. मपरतं गतम् ) । अस्माकमास्था वनान्ते । कथम् । क्षीणो मोहः । जगज्जालं विश्वसमूहं तृणमिव आलोकयामः ॥ ६८॥ ..' १ ख. घ.प्रीतिरा।२ ग. किमभूदधुना; हं कोशप्रान्ते 'इदानीमर्थसंपात्तः' पाठोस्ति। ३ हं. मपरतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy