SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ८२ अथ तृष्णाधिकारमाह भर्तृहरिकृत - शतकत्रयम् भ्रान्त्वा देशमनेकदुर्गविषमं प्राप्तं न किंचित् फैलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं • पैरगृहे साशङ्कयो काकवत् तृष्णे जृम्भणि पापकर्मनिरते नाद्यापि संतुष्यसि ॥ ४ ॥ हे तृष्णे पापकर्मनिरते जृम्भणि ( हं. म्भिणि) सोल्लासे अद्यापि न संतुष्यसि न संतुष्टा भवसि । तद्दोषानुपदर्शयति ( हं. देशयति ) । हे तृष्णे ! अनेकदुर्गविषमं देशं भ्रान्त्वा भ्रान्त्वा किंचित्फलं न प्राप्तम् । हे तृष्णे ! उचितं योग्यं जातिकुलाभिमानं त्यक्त्वा निष्फला सेवा कृता । परगृहे मानविवर्जितं साशङ्कया भुक्तम् । किंवत् ? । काकवत् । हे तृष्णे ! सर्वमप्येतत्तदेवं (? वैव) चेष्टितम् ॥ ४ ॥ उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो [ ३.४-६] Jain Education International निस्तीर्णः सरितां पतिर्नृपतयो यत्नने 'संतोषिताः । मंत्राराधनतत्परेण मनसा नीताः श्मशाने निशाः लैब्धः काणवराटकोऽपि न मया तृष्णेऽधुना मां त्यज ॥ ५ ॥ हे तृष्णे ! अधुना मां त्यज । कथम् ? । हे तृष्णे ! तव प्रभावात् निधिशङ्कया क्षितितलं उत्खातम् । कथमप्यहं निधानं लभे इति वाञ्छया । हे तृष्णे ! तव प्रेरणया गिरेर्धातवो माताः । कदाचिदपि सौवर्णखानिं लभे ( हं. लभते ) । तथाप्यलाभे सति हे तृष्णे ! सरितां पतिः समुद्रो निस्तीर्णः । हे तृष्णे ! नृपतयो यत्नेन संतोषिताः । हे तृष्णे ! मया श्मशाने निशा नीताः । केन ! | मंत्राराधनतत्परेण मनसा । तथापि मया काणवराटकोsपि घर्षितकपर्दकोऽपि न प्राप्तः ॥ ५ ॥ खेलोल्लापाः सोढाः कथमपि तदाराधनपरैर् निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा । तश्चित्तस्तम्भः प्रतिहतधियामञ्जलिर पि त्वमाशे मोघँसि किमपरमतो नर्तयसि माम् ॥ ६॥ १ ज. भ्रान्त्या । ५ख. २ ज. धनं । ३ हं. च. छ. निःफला । ४ क, परिग्रहे । घ. वाशङ्कितं । ६ ग. जृम्भसि च. ज्रम्भणि, हं. ज. जृम्भिणि । ७ घ. निरतो ! ८. घ. संतुष्यति । ९ ज. संसेविताः । १० ख. घ. ज. प्राप्तः । ११ ख. घ. तृष्णे सकामा भव, ज. तृष्णेऽधुना मुञ्च माम् । १२ ज. खलोल्लासाः । १३ हं. ख. च. ज कृतो चित्त' । १४ क. घ. ज. मोघाशे । For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy