SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७५ [२. ९२-९४] शृङ्गारशतकम् दन्तानां समूहैः कीर्णं व्याप्तम् । किं० द्विजानां गणैः? । स्वभावशुचिभिः निसर्गनिर्मलैः । वक्षोजकुम्भद्वयं स्तनकलशयुगलं मुक्तानां मुक्तामणिहाराणां सतताधिवासरुचिरं निरन्तरनिवाससुन्दरम् । एवंविधं नायिकानां वपुः शरीरं रागोत्पत्तिकृद् भवति ॥ ९१ ॥ अथ मानिनीनां मानपरिहारमुद्दिश्याहप्रथितः प्रणयवतीनां तावत् पदेमातनोतु हृदि मानः। भवति न यावच्चन्दनतरुसुरभिर्मलयवमानः ॥ ९२ ॥ मानः प्रणयवतीनां नारीणां हृदि तावत् पदं स्थानं आतनोतु विस्तारयतु । किं० मानः? । प्रथितः न प्रच्छन्नः प्रकट इत्यर्थः । यावत् मलयपवमानः मलयाचलपवनो न भवति न वाति । किं० मलयपवमानः ? । चन्दनतरुसुरभिः चन्दनवृक्षवत्सुगन्धिः । तस्मिन् पवने वीयमाने मानिनीनां मानो गर्वो गलति ॥ ९२ ॥ अथ वसन्तप्रभावमाहसहकारकुसुमकेसरनिकरभवामोदमूछितदिगन्ते । मधुरमधुविधुरमधुपे मधौ भवेत् कस्य नोत्कण्ठा ॥ ९३ ॥ कस्य पुरुषस्य मधौ वसन्ते उत्कण्ठा न भवति । अपि तु सर्वस्यापि । किं० मधौ ? । मधुरमधुविधुरमधुपे मधुरो मनोज्ञो योऽसौ मधुस्तेन विधुरो विह्वलो मधुपो भ्रमरो यस्य [ सः] मधुरमधुविधुरमधुपः तस्मिन् । पुनरपि किं० मधौ ? । सहकारकुसुमकेसरनिकरभवामोदमूञ्छितदिगन्ते सहकारकुसुमस्य केसराः सहकारकुसुमकेसराः तस्य (तेषां ) निकरः समूहः तद्भवामोदेन तत्समुत्पन्नपरिमलेन मूछितं व्याप्तं दिगन्तं येन [ सः ] सहकारकुसुमकेसरनिकरभवामोदमूछितदिगन्तः तस्मिन् ॥ ९३ ॥ अथ विलासिनां निदाघमुद्दिश्याह स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः परागः कासारो मलयजरजः सीधु विशदम् । शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो निदाघर्तावेतद् विलसति लभन्ते सुकृतिनः ॥ ९४ ॥ निदाघौं विलसति सति एतदुच्यमानं सुकृतिनो लभन्ते नापरे । एतत् किम् ? । हृद्यामोदाः स्रजः कुसुममालाः हृद्य आमोदो गन्धो यासां ता हृयामोदाः मनोहरपरिमला इत्यर्थः । एवंविधाः स्रजः । पुनः किं० ? । व्यजनपवनः पक्षकवातः । पुनः किं० । चन्द्रकिरणाः । पुनः किं० ? । कासारः परागः अनुत्खातसरःशीतललहर्यः । पुनः किं० । मलय जरजः चन्दनोत्पन्नचूर्णः। पुनः किं० ? । विशदं निर्मलं सीधु (ग. सिन्धु ) मद्यम् । पुनः .. १ है. क. च. प्रथित; ग. प्रायः। २ घ. °मातनोति। ३ ज. न भवति न याव । ४ ग. पवनः। ५ग. शीधु। ६ ख. घ. वचनं (ख. 'वसन' मित्यपि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy