SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ज्ञानबिन्दुप्रकरणस्य [ पृ० ७. पं० २० दानप्रशंसायां प्राणवधः, तन्निषेधे च वृत्तिप्रतिषेधः, एतेनेदं सूत्रकृतांगसूत्रं लक्ष्यते - "जे उ दाणं पसंसंति वहमिच्छन्ति पाणिणं । जे अण्णं पडिसेहंति वित्तिच्छेयं कुणन्ति ते ।।" [ सूत्रकृ० १.११.२० ] अत्र पदार्थ एषः यदेतौ द्वौ दानप्रशंसानिषेधौ महापापावशुभगतिला भान्तरायादि प्रबलपाप• प्रकृतिबन्धहेतुत्वादिति ॥ १६८ ॥ 10 ७८ 30 वक्कत्थो पुण एवं विच्छेओ होज देसणाईणं । एयं विसेसविसयं जुजइ भणिअं तु वोतुं जे ॥ १६९ ॥ वाक्यार्थः पुनरेवमभ्युपगम्यमाने देशनादीनां पात्रापात्रादिविषयदानविधिनिषेधादिदेशमादीनां विच्छेदः स्यात् - "धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ॥ बीजं यथोपरे क्षिप्तं न फलाय प्रकल्प्यते । तथाऽपात्रेषु यद्दानं निष्फलं तद्विदुर्बुधाः ।। " इत्यादिदेशनाप्रवृत्तौ जीवहिंसानुमतिलाभान्तरायप्रसङ्गस्य वज्रलेपायमानत्वात् । तस्मात् 11 एतद्भणितं तु विशेषविषयं वक्तुं युज्यते, जे इति पादपूरणार्थो निपातः ॥ १६९॥ आगमविहिणिसिद्धे अहिगिच्च पसंसणे णिसेहे अ । लेसेण वि णो दोसो एस महावक्कगम्मत्थो ॥ १७० ॥ आगमे सिद्धान्ते विहितं निषिद्धं च दानमधिकृत्य प्रशंसने निषेधे च लेशेनापि नो दोषः । सत्प्रवृत्तिरूपस्य विहितदानव्यापारस्य हिंसारूपत्वाभावेन तत्प्रशंसने हिंसानुमोदनस्या20 प्रसङ्गात् । प्रत्युत सुकृतानुमोदनस्यैव सम्भवात्, निषिद्धदानव्यापारस्य च असत्प्रवृत्तिरूपस्य निषेधे वृत्तिच्छेदपरिणामाभावेनान्तरायानर्जनात् । प्रत्युत परहितार्थप्रवृत्त्यान्तरायकर्मविच्छेद एव । तदिदमुक्तमुपदेशपदे - "आगमविहिअं तंते पडिसिद्धं चाहिगिच्च णो दोसो ति" - [ गा० ८७९ ] आगमविहितं संस्तरणे सुपात्रे शुद्धभक्तादिदानम् । असंस्तरणे त्वशुद्धभक्तादिदानमपि 25 तन्निषिद्धं च कुपात्रदानादिकमनुकम्पादानं तु क्वापि न निषिद्धं यदाह - "मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ । अणुकम्पादाणं पुण जिणेहिं न कयावि पडिसिद्धं ॥ " एष महावाक्यगम्योर्थः ॥ १७० ॥ अपत्थ पुण मोक्खंगं होइ आगमाबाहा । एवं पत्तं चि वक्खाणं पायसो जुत्तं ॥ १७१ ॥ ऐदम्पर्यार्थः पुनर्मोक्षाङ्गं भवति, आगमाबाधा आगमार्थानुल्लङ्घनम् । अतिदेशमाह - एवमुपदर्शितप्रकारेण प्रतिसूत्रं यावन्ति सूत्राण्यङ्गीकृत्य प्रायशो व्याख्यानं युक्तं अतिसंक्षिप्तरुचिश्रोत्राद्यपेक्षया प्रायश इत्युक्तम् ॥ १७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy