SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भाष्य गाथाः ५०४३-५२ ] चतुर्थ उद्देशः । १३४७ निवेदयिता यस पत्थिवस्स, जहिं निवो तत्थ तयं पवेसे || ५०४७ ॥ हे प्रतीहाररूपिन् ! मध्ये गत्वा 'राजरूपिणं' राजानुकारिणं भण, यथा-वां संयतरूपी द्रष्टुमिच्छति । एवमुक्तः सन् 'सः' प्रतीहारस्तथैव पार्थिवस्य निवेदयति । निवेद्य च राजानुत्या यत्र नृपोऽवतिष्ठते तत्र 'तकं' साधुं प्रवेशयति ॥ ५०४७ ॥ तं पूयइत्ताण सुहासणत्थं, पुच्छि रायाऽऽगयको उहल्लो । पहे उराले असुए काई, स चावि आइक्खड़ पत्थिवस्स || ५०४८ ॥ 'तं' साधुं प्रविष्टं सन्तं राजा पूजयित्वा 'शुभासनस्थं' शुभे आसने निषण्णमागत कुतूहलोsप्राक्षीत् । कानू ? इत्याह- प्रश्नान् 'उदारान्' गम्भीरार्थान् कदाचिदप्यश्रुतान् "प्रतिहाररूपन्” ! इत्येवमादिकान्। स चापि' साधुरेवं पृष्टः पार्थिवस्याचष्टे ।। ५०४८ ॥ किमाचष्टे ? इत्याह जारिसग आयरक्खा, सक्कादीणं न तारिसो एसो । तुह राय ! दारपालो, तं पि य चक्कीण पडिरूवी ॥। ५०४९ ॥ 5 यादृशकाः खलु शक्रादीनाम्, आदिशब्दात् चमरादिपरिग्रहः, आत्मरक्षा न तादृश एष तव राजन् ! द्वारपालस्तत उक्तम् " हे प्रतीहाररूपिन् !” । तथा त्वमपि यादृशश्चक्रवर्ती तादृशो न भवसि, रत्नाद्यभावात्, अत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या, किञ्च प्रताप - शौर्य- न्यायानुपाल - 15 नादिना तत्प्रतिरूपोऽसि तत उक्तम् "राजरूपिणं ब्रूहि", चक्रवर्तिप्रतिरूपमित्यर्थः ॥ ५०४९ ॥ · एवमुक्ते राजा प्राह - त्वं कथं श्रमणानां प्रतिरूपी ? तत आह 10 समणाणं पडिरूवी, जं पुच्छसि राय । तं कहमहं ति । निरतीयारा समणा, न तहाऽहं तेण पडिरूवी ॥। ५०५० ॥ यत् त्वं राजन् ! पृच्छसि 'अथ कथं त्वं श्रमणानां प्रतिरूपी ?' तदहं कथयामि यथा 20 श्रमणा भगवन्तो निरतिचारा न तथाऽहं तेन श्रमणानां प्रतिरूपी, न तु साक्षात् श्रमण इति ॥ ५०५० ॥ प्रतिरूपित्वमेव भावयति Jain Education International निज्जूढो मि नरीसर !, खेत्ते वि जईण अच्छिउं न लभे । अतियारस्स विसोधि, पकरेमि पमायमूलस्स ।। ५०५१ ॥ हे नरेश्वर ! प्रमादमूलस्यातिचारस्य सम्प्रति विशोधिं प्रकरोमि, तां च कुर्वन् 'निर्यू ढो- 25 ऽस्मि' निष्कासितोऽस्मि, तत आस्तामन्यत्, क्षेत्रेऽपि यतीनामहमास्थातुं न लभे ततः श्रमणप्रतिरूप्यहमिति ॥ ५०५१ ॥ राजा प्राह- - कस्त्वया कृतोऽतिचारः ? का वा तस्य विशोधिः ? एवं पृष्ठे यत् कर्तव्यं तदाह कहणाऽऽउट्टण आगमणपुच्छणं दीवणा य कजस्स । 30 वीसज्जियंतिय मए, हासुस्सलितो भणति राया ।। ५०५२ ॥ कथनं राज्ञा पृष्टस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनभावना भवति । ततः 'आवर्तनम् ' आकम्पनम्, राज्ञो भक्तीभवनमिति भावः । तदनन्तरमागमनकारणस्य प्रश्नः -- ( ग्रन्थाग्रम् - १००० । सर्वग्रन्थाग्रम् - - - ३४८२५ ) केन प्रयोजनेन यूयमत्रागताः स्थ ? | अत्रान्तरे For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy