SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४९४०-४७ ] चतुर्थ उद्देशः । १३२३ भावात्' राग-द्वेषाभावाद् भवति । शिष्यः प्राह - दर्पेण कल्पेन वाssसेविते किं भवति ? इति उच्यते - कल्पेनासेविते ज्ञानादीनामाराधना भवति, दर्पेण प्रतिसेविते तेषामेव विराधना भवति ॥ ४९४३ ॥ आह- यदि राग-द्वेषविरहिता कल्पिका भवति तर्हि मैथुने कल्पिकाया अभावः प्राप्नोति । उच्यते— प्राप्नोतु नाम, का नो हानि: ? । तथा चाह--- कामं सव्यपदेवि, उस्सग्ग-ध्ववादधम्मता जुत्ता । मोतुं मेहुणभावं, ण विणा सो राग-दोसेहिं ।। ४९४४ ॥ 'कामम्' अनुमतमिदमस्माकम् – 'सर्वेष्वपि पदेषु' मूलोत्तरगुणरूपेषु 'उत्सर्गा- ऽपवादधर्मता युक्ता' उत्सर्गः - प्रतिषेधः अपवादः - अनुज्ञा तद्धर्मता - तल्लक्षणता सर्वेष्वपि पदेषु युज्यते; तथापि मुक्त्वा 'मैथुनभावम्' अब्रह्मासेवनम्, तत्र उत्सर्गधर्मतैव घटते नापवादधर्मता । किमर्थम् ? इत्याह—असौ मैथुनभावो राग-द्वेषाभ्यां विना न भवति, अतो द्वितीयपदेऽपि न 10 तत्राप्रायश्चित्तीति हृदयम् ॥ ४९४४ ॥ अयं पुनरस्ति विशेषः - 5 संजमजीवितउं, कुसलेणालंबणेण वऽण्णेणं । भयमाणे तु अकिचं, हाणी वड्डी व पच्छित्ते ॥ ४९४५ ॥ 'संयमजीवितहेतोः ' 'चिरकालं संयमजीवितेन जीविष्यामि' इति बुद्ध्या 'कुशलेन वा ' तीर्थाव्यवच्छित्त्यादि लक्षणेनान्येनाप्यालम्बनेन 'अकृत्यम्' अब्रह्म 'भजमानस्य' आसेवमानस्य 15 प्रायश्चिहानिर्वा वृद्धिर्वा वक्ष्यमाणनीत्या भवति ॥ ४९४५ ॥ आह— मैथुने कल्पिका सर्वथैव न भवति ? इति अत आह— गीत्थो जताए, कडजोगी कारणम्प्रि णिद्दोसो । एगेसिं गीत कडो, अरत्तदुट्ठो तु जतणाए || ४९४६ ॥ गीतार्थः 'यतनया' अल्पतरापराधस्थानप्रति सेवारूपया 'कृतयोगी' तपःकर्मणि कृताभ्यासः - 20 'कारणे' ज्ञानादौ सेवते, एष प्रथमो भङ्गः, अत्र च प्रतिसेवमानः कल्पिकप्रति सेवावानिति कृत्वा निर्दोषः । गीतार्थो यतनया कृतयोगी निष्कारणे, एष द्वितीयो भङ्गः, अत्र सदोषः । एवं चतुर्णां पदानां षोडश भङ्गाः कर्तव्याः । एकेषां पुनराचार्याणामिह पञ्च पदानि भवन्ति– गीतार्थः कृतयोगी अरक्को अद्विष्टो यतनया सेवते, एष प्रथमो भङ्गः; गीतार्थः कृतयोगी द्विष्टोऽयतनया, एष द्वितीयों भङ्गः; एवं पञ्चभिः पदैर्द्वात्रिंशद् भङ्गा भवन्ति । अत्रापि 25 प्रथमभङ्गे कल्पिका प्रतिसेवा मन्तव्या न शेषेषु ॥ ४९४६ ॥ आह - यदि तत्र कल्पिका तर्हि निर्दोष एवासौ, उच्यतेजति सव्वसो अभावो, रागादीणं हविज निद्दोसो | जतणाजुतेसु तेसु तु, अप्पतरं होति पच्छित्तं ॥ ४९४७ ॥ यदि 'सर्वशः' सर्वप्रकारेणैव रागादीनामभावो मैथुने भवेत् ततो भवेन्निर्दोषः, तच्च 30 नास्ति, अतो न तत्र सर्वथा निर्दोषः परं यतनायुतेषु 'तेषु' गीतार्थादिविशेषणविशिष्टेषु साधुष्वल्पतरं प्रायश्चित्तं भवति ॥ ४९४७ ॥ अथ यदुक्तम् - "हानिर्वृद्धिर्वा प्रायश्चित्ते भवति” ( गा० ४९४५ ) तत्र हानिं तावद् विवरीषुराह - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy