SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भाप्यगाथाः ५९६६-६८ ] पञ्चम उद्देशः । १५७५ फलाद् जातः फालः सौत्रिक इत्यर्थः, 'अचित्रः' अकर्बुरः । अथ सौत्रिको न प्राप्यते तत आविको वा । स च चतुरङ्गुलं 'विस्तृतः' पृथुलः 'असन्धिमश्च' अपान्तराले सन्धिरहितः, एवंविधः पर्यस्तिकापट्टः शरीरस्य विश्रामहेतोर्गृह्यते । ये चावष्टम्भगताः "संचरकुंथुद्देहिय" ( ओघनियु० गा० ३२३) इत्यादिका दोषास्तेऽपि 'एवम्' आकुञ्चनपट्टे, परिधीयमाने न . भवन्ति ॥ ५९६८ ॥ सूत्रम् नो कप्पइं निग्गंथीणं सावस्सगंसि आसणंसि आसइत्तए वा तुयहित्तए वा। कप्पइ निग्गंथाणं सावस्सयंसि आसणंसि आस. इत्तए वा तुहियत्तए वा ३२ ॥ सावश्रयं नाम-यस्य पृष्ठतोऽवष्टम्भो भवति एवंविधे आसने निर्ग्रन्थीनां नो कल्पते आसितुं वा त्वग्वर्तितुं वा । कल्पते निर्ग्रन्थानां सावश्रये आसने आसितुं वा त्वग्वर्तितुं वा । निन्थ्यस्तु तादृशे आसने यदि उपविशन्ति शेरते वा तदा त एव गर्वादयो. दोषाश्चतुर्गुरु च प्रायश्चित्तम् । द्वितीयपदेऽल्पसागारिके स्थविरा ग्लाना वा उपविशेत् । निम्रन्थानामपि न कल्पते । यदि. उपविशन्ति तदा चतुर्लघु । सूत्रं तु कारणिकम् ।। तदेव कारणमाह-... ..15 "सावस्सए" इत्यादि पश्चार्द्धम् । यो वृद्ध आचार्यः सः 'पूर्वकृते'. गृहस्थैः स्वार्थ निष्पादिते सावश्रयेऽप्यार्सने उपविष्टः 'असागारिके' एकान्ते 'वाचयेत्' विनेयानां वाचनां. दद्यात् ।। ५९६७ ॥ सूत्रम् नो कप्पइ निग्गंथीणं सविसाणंसि पीढंसि वा 20 फलगंसि वा आसइत्तए वा तुयट्टित्तए वा । कप्पइ निग्गंथाणं सविसाणंसि पीढंसि वा फलगंसि वा आसइत्तए वा तुयत्तिट्टए वा ३३ ॥ सविषाणं नाम-यथा कपाटस्योभयतः शृङ्गे भवतः एवं यत्र भिसिकादौ . पीठे फलके वा विषाणं-शृङ्गं भवति तत्र निम्रन्थीनामासितुं वा शयितुं वा न कल्पते । निर्ग्रन्थानां तुर कल्पते । निम्रन्थ्यस्तु सविषाणे पीढे फलके वा यापविशन्ति शेरते वा तदा चतुर्गुरु आज्ञादयश्च दोषाः ॥ तथा १ फाल्यः इति चूर्णी विशेषचूर्णौ च ॥ २ एतदनन्तरम् ग्रन्थानम्-७००० का० ॥ ३ मपि सावश्रये आसितुं न क° का० ॥ ४ °सने सिंहासनापरपर्याये "बिट्टो" त्ति उप' का ॥ ५ भा० विनाऽन्यत्र-वा त्वग्वर्तितुं वा न कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy