SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १५५२ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूने [आहार०प्रकृते सूत्रम् ११ गिहत्थभाणेसु व पेहिऊणं, मत्ते व सोहेत्तुवरि छुभंति ॥ ५८८४ ॥ ___ आयामं संसृष्टपानकमुष्णोदकं वा 'निवृतं वा' प्राशुकीभूतं 'चाउलोदकं' तण्डुलधावनं गृहन्ति । एतेषामभावे तदेव काञ्जिकं गृहस्थभाजनेषु प्रत्युपेक्ष्य मात्रके वा शोधयित्वा यद्यसंसक्तं तदा प्रतिग्रहोपरि प्रक्षिपन्ति ॥ ५८८४ ॥ द्वितीयपदमाह बिइयपद अपेक्खणं तू, गेलण्ण-ऽद्धाण-ओममादीसु । तं चेव सुक्खगहणे, दुल्लभ दर दोसु वी जयणा ॥ ५८८५॥ द्वितीयपदे ग्लाना-ऽध्वा-ऽवमादिषु कारणेषु 'अप्रेक्षणं' पिण्डस्याप्रत्युपेक्षणमपि कुर्यात् । 'तदेव च' ग्लानत्वादिकं द्वितीयपदं 'शुष्कस्य' ओदनस्य ग्रहणे मन्तव्यम् । दुर्लभं वा द्रवं पश्चान्न लभ्यते ततः पूर्वं तद् गृहीतमिति कृत्वा नास्ति तद् भाजनं यत्र पृथक् शुष्कं गृह्यते । 10 "दोसु वी जयण" त्ति 'द्वयोरपि' अप्रत्युपेक्षणा-शुष्कग्रहणयोरेषा यतना कर्तव्या । एर्षे सङ्ग्रहगाथासमासार्थः ॥ ५८८५ ॥ साम्प्रतमेनामेव विवृणोति अच्चाउर सम्मूढो, वेलाऽतिक्कमति सीयलं होइ। असढो गिण्हण गहिते, सुज्झेज अपेक्खमाणो वि ।। ५८८६ ॥ कश्चिदतीव 'आतुरत्वेन' ग्लानत्वेन 'सम्मूढः' सम्मोह-समुद्धातमुपगतस्ततो यावत् प्रत्युपेक्षते 15 तावद् वेलाऽतिक्रामति शीतलं वा तावता कालेन भवति, तत एवम् 'अशठः' विशुद्धभावो गृह्मानो वां गृहीते वा पिण्डे प्रत्युपेक्षणामकुर्वाणोऽपि 'शुध्येत' प्रायश्चित्तभाग् न भवेत् ॥५८८६॥" ओमाणपेल्लितो वेलऽतिकमो चलिउमिच्छति भयं वा । एवंविहे अपेहा, ओमे सतिकाल ओमाणे ॥ ५८८७ ॥ अध्वनि वा गच्छतां सार्थः 'अवमानप्रेरितः' प्रभूतभिक्षाचराकीर्णः, यावच्च प्रत्युपेक्षते तावद् 20 वेलातिक्रमो भवति, स च सार्थश्चलितुमिच्छति, पृष्ठतो गच्छतां च भयम् , तत एवंविधे कारणेऽप्रेक्षा, प्रत्युपेक्षामन्तरेणापि पिण्डं गृह्णीयादित्यर्थः । अवमे च प्रत्युपेक्षमाणानां 'सत्कालः' भिक्षाया देशकालः स्फिटति सूर्यो वाऽस्तमेति अवमानं वा-भिक्षाचराकीर्णं ततोऽप्रत्युपेक्षितमपि गृह्णीयात् ।। ५८८७ ॥ परम्--. तो कुजा उवओगं, पाणे दहण तं परिहरेजा। 25 कुजा ण वा वि पेहं, सुज्झइ अतिसंभमा सो तु ॥ ५८८८ ॥ ___ यदि अनन्तरोक्तकारणैः प्रत्युपेक्षणं न भवति तत उपयोगं कुर्यात् । कृते चोपयोगे यदि प्राणिनः पश्यति ततस्तान् दृष्ट्वा तद्' भक्त-पानं परिहरेत् । अथवा अत्यातुरः ‘प्रेक्षाम्' उपयोगमपि च कुर्याद् वा न वा । अनुपयुञ्जानोऽपि चातिसम्भ्रमादसौ साधुः शुध्यति । यच्चाधस्तादुक्तं १'आयामम्' अवस्रावणं संसृष्टपानकं-गोरसभाजनधावनम् उष्णोदकं वा-उदृत्तत्रिदण्डं 'निर्वृ का० ॥ २ अथात्रैव द्विती' कां० ॥ ३ शुष्कम्-ओदनं गृह्यते, अतस्तन्मध्य एव तद् गृह्णीयात् । "दोसु का ० ॥ ४ प नियुक्तिगाथा का० ॥ ५भावितं ग्लानत्वे द्वितीयपदम् । अथाऽध्वा-ऽवमयोस्तदेव भावयति इलवतरणं कां ॥ ६ 'प्रेक्षा' प्रत्युपेक्षणाम् उप कां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy