SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५८३७-४३] पञ्चम उद्देशः । १५४१ तिसु चउलहुगा चउगुरु, तिसु चउगुरु छल्लहू अंते ॥ ५८४० ॥ तिसु छल्लहुगा छग्गुरु, तिसु छग्गुरुगा य अंतिमे छेदो। छेदादी पारंची, बारसगादीसु त चउकं ॥ ५८४१ ॥ 'त्रिषु स्थानेषु' प्रादोषिकखाध्याय-वैरात्रिकाकरणोद्गार विवेचनरूपेषु लघुको मासः, 'एकस्मिन्' चतुर्थे प्रत्यवगिलनाख्ये स्थाने मासगुरु । येऽन्यत्र गन्तुकामाः प्राप्तभूमिकाः सङ्खडि-5 हेतोरर्द्धयोजनादागतास्तेषां प्रादोषिकखाध्यायाकरणादिषु त्रिपु स्थानेषु मासगुरु, अन्त्यस्थाने चतुर्लघु । येऽप्राप्तभूमिकाः सङ्खडिनिमित्तं योजनादागतास्तेषां प्रादोषिकादिषु त्रिषु पदेषु चतुर्लघु, अन्त्यपदे चतुर्गुरु । ये तु योजनद्वयादायातास्तेषामादिपदेषु त्रिषु चतुर्गुरु, अन्त्यपदे षड्लघु ॥५८४० ॥ __ ये योजनचतुष्टयादागतास्तेषां त्रिष्वाद्यपदेषु षड्लघु, अन्त्यपदे षड्गुरु । ये योजनाष्टकादा-10 गतास्तेषां त्रिषु षड्गुरु, अन्त्यपदे च्छेदः । ये द्वादशयोजनादागतास्ते प्रादोषिके खाध्यायं न कुर्वन्ति च्छेदः, आदिशब्दाद् वैरात्रिकमकुर्वतां मूलम् , उद्गारं विविञ्चतामनवस्थाप्यम् , प्रत्यापिवतां पाराञ्चिकम् । 'बारसगादीसु य चउकं" ति प्रतीपक्रमेण यानि द्वादशयोजनप्रभृतीनि स्थानानि तेषु सर्वेष्वपि प्रत्येकं प्रत्येकं प्रादोषिकादिचतुष्कं मन्तव्यम् । चतुर्वपि पदेषु तपोर्हाणि प्रायश्चित्तानि प्राग्वत् तपः-कालविशेषितानि कर्तव्यानि ॥ ५८४१॥ 15 अस्यैवार्थस्य सुखावबोधार्थमिमां प्रस्ताररचनामाह खेत्तंतों खेत्तबहिया, अप्पत्ता बाहि जोयण दुगे य । चत्तारि अट्ठ वारसऽजग्ग सुव विगिंचणाऽऽदियणा ॥ ५८४२॥ इहोwषःक्रमेणाष्टौ गृहाणि स्थापनीयानि, तिर्यक् ,पुनश्चत्वारि, एवं द्वात्रिंशद् गृहकाणि कर्तव्यानि । प्रथमगृहाष्टकपलयामधोऽध एतेऽष्टौ पुरुषविभागा लेखितव्याः-ये तत्रैव गन्तु-20 कामा यतनाप्राप्ता ये च वास्तव्या यतनाकारिण एष एकः पुरुषविभागः १। ये तु तत्रैव गन्तुकामा एवायतनया प्राप्ता वास्तव्याश्चायतनाकारिण एष द्वितीयः २ । ये तु अन्यत्र गन्तुकामास्ते क्षेत्रान्तः क्षेत्रबहिर्वा आगता भवेयुः । ये क्षेत्रान्तस्ते प्राप्तभूमिका उच्यन्ते एष तृतीयः ३ । ये तु क्षेत्रबहिस्तेऽप्राप्तभूमिका उच्यन्ते, ते च योजनादागताः स एष चतुर्थः पुरुषविभागः ४ । योजनद्वयादागताः पञ्चमः ५। चतुर्योजनादागताः षष्ठः ६ । अष्टयोजना-25 दायाताः सप्तमः ७ । द्वादशयोजनादागता अष्टमः ८ । उपरितनतिर्यगायात चतुष्कपडया उपरिक्रमेणामी चत्वारो विभागा लेखितव्याः-प्रदोषेऽजागरणं १ वैरात्रिकखाध्यायवेलायां स्वपनम् २ उद्गारविवेचनम् ३ उद्गारप्रत्यवगिलनम् ४ ॥ ५८४२ ॥ आदिमचतुष्कपतयां द्वितीयगृहादमूनि प्रायश्चित्तानि क्रमेण स्थापयितव्यानि पणगं च भिण्णमासो, मासो लहुओ उ पढमतो सुद्धो। मासो तव-कालगुरू, दोहि वि लहुओ अ गुरुओ य ॥ ५८४३ ॥ १ येऽयतनाप्राप्तास्तत्रेव गन्तुकामा ये च ससडिप्रेक्षिगो वास्तव्यास्तेषां 'त्रिषु स्थानेषु' का० ॥ २ °व्यानि । कानि पुनस्तानि ? इत्यत आह-पणगं का० ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy