SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १५२५ भाष्यगाथाः ५७८४] पञ्चम उद्देशः। भोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परि हारटाणं अणुग्घाइयं ४-९॥ अस्य सूत्रचतुष्टयस्य सम्बन्धमाह अण्णगणं वच्चंतो, परिणिव्ववितो व तं गणं एंतो। विह संथरेतरे वा, गेण्हे सामाएँ जोगोऽयं ॥ ५७८४ ॥ अधिकरणं कृत्वाऽनुपशान्तोऽन्यगणं व्रजन् परिनिर्वापितो वा भूयस्तमेव गणं आगच्छन् 'विहे' अध्वनि संस्तरणे इतरस्मिन् वा-असंस्तरणे 'श्यामायां' रजन्यामाहारं गृह्णीयात् । एष 'योगः' सम्बन्धः ॥ ५७८४ ॥ अनेनायातस्यास्य व्याख्या-'भिक्षुः' पूर्ववर्णितः, चशब्दाद् आचार्य उपाध्यायश्च परिगृह्यते, उद्गते आदित्ये वृत्तिः-जीवनोपायो यस्य स उद्गतवृत्तिकः; पाठान्तरं वा--"उग्गय-10 मुत्तीए" ति, मूर्तिः-शरीरम् , उद्गते रवौ प्रतिश्रयावग्रहाद् बहिः प्रचारवती मूर्तिरस्य इति उद्गतमूर्तिकः, मध्यपदलोपी समासः । अनस्तमिते सूर्ये सङ्कल्पः-भोजनाभिलाषो यस्य सोऽनस्तमितसङ्कल्पः । संस्तृतो नाम-समर्थस्तदिवस पर्याप्तभोजी वा । "निवितिगिंछे" ति विचिकित्सा-चित्तविप्लुतिः सन्देह इत्येकोऽर्थः, सा निर्गता यस्मात् स निर्विचिकित्सा, उदितोऽनस्तमितो वा रविरित्येवं निश्चयवानित्यर्थः । एवंविधविशेषणयुक्तोऽशनं वा पानं वा 15 खादिमं वा खादिमं वा प्रतिगृह्य आहारम् 'आहरन्' भुञ्जानोऽथ पश्चादेवं जानीयात्अनुद्गतः सूर्योऽस्तमितो वा; एवं विज्ञाय "से" तस्य यच्च मुखे प्रक्षिप्तं यच्च पाणावुत्पाटितं यच्च प्रतिग्रहे स्थितं तद् 'विविश्चन् वा' परिष्ठापयन् 'विशोधयन् वा' निरवयवं कुर्वन् 'नो' नैव भगवतामाज्ञामतिकामति । 'तद्' अशनादिकं आत्मना भुञ्जानोऽन्येषां वा ददानो रात्रिभोजनप्रतिसेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥ एवमपरमपि सूत्रत्रयं मन्तव्यम् । नवरं द्वितीयसूत्रे-संस्तृतो विचिकित्सासमापन्नश्च यो 20 १ "अण्णगणं वचतो." इत्येतत् ५५८४ गाथात आरभ्य "एवं वितिगिंछो वी." इति ५८१५ गाथा. पर्यन्ता गाथाः चूर्णी विशेषचूर्णौ चापि क्रममेदेन व्याख्याता विलोक्यन्ते । तथाहि तद्गतः क्रमःअण्णगणं० ५७८४ उग्गयवित्ती० ५७८८ संथडिओ० ५८०७ णिस्संकमणु० ५८०८ एमेव य उदिउ० ५८०९ समिचिंचि०५८१० अन्भहिम० ५८११ सम्बस्स छडण. ५८१३ णातिकमती. ५८१४ संथडमसंथडे. ५७८५ सूरे अणुग्गय० ५७८९ अणुदितमण. ५७१० अणुदितमण, ५७९१ तइयाए दो०५७९२ उग्ग. यमण. ५७९३ ततियलताए० ५७९४ अत्थंगय० ५७९५ ततिया गवे० ५७९६ अणत्थंगय. ५७९७ मणएसणाए. ५७९८ पढमाए बिति० ५७९९ पंचम छ स्सत्त. ५८०० अणुदितमण ५७८६ अत्यंगयसंकप्पे० ५७८७ दोण्ह वि कयरो० ५८०१ सुत्तं पडुच. ५८१२ गेण्हण गहिए. ५८०२ संलेह पण. ५८.३ एमेव गणा० ५८०४ पंचूण विभाग० ५८०५ एमेवऽभिक्ख० ५८०६ एवं वितिगिंछो वी० ५८१५॥ २°त। अत आद्यसत्रद्वयं संस्तरणे द्वितीयं पनरसंस्तरणे रजनीभोजननिषेधकमारभ्यते । अयं 'योगः' सम्बन्धः॥ ५७८४॥ अनेन सम्बन्धेनायातस्यास्य सूत्रचतुष्यस्य व्याख्या का० ॥३°शनं वा ४ प्रति डे० मो० ले.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy