SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५७६०-६६ ] पञ्चम उद्देशः । षिकावश्यकवेलायाम् । एवं चतुरो वारानेकैकस्मिन् दिने नोयते ॥ ५७६२ ॥ तच्चाधिकरण प्रभाते प्रतिक्रान्तानां स्वाध्यायेऽप्रस्थापिते एवमादौ कारणे उत्पद्येत - दुप्पडिले हियमादिसु, चोदिऍ सम्मं तु अपडिवर्जते । न वि पट्टवेंति उवसम, कालों ण सुद्धो जियं वा सिं ॥ ५७६३ ॥ दुष्प्रत्युपेक्षितं कुर्वन् आदिशब्दाद् अप्रत्युपेक्षमाणोऽसामाचार्या वा प्रत्युपेक्षमाणो नोदितः 5 सम्यग् यदि न प्रतिपद्यते ततोऽधिकरणं भवेत् । उत्पन्ने चाधिकरणे यदि खाध्यायेऽप्रस्थापिते स्वयमेवोपशान्तस्ततो लष्टम् । अथ नोपशान्तस्ततो यः प्रस्थापनार्थमुपतिष्ठते स वारणीयः, यथा — तिष्ठतु तावद् यावत् सर्वेऽपि मिलिताः । तत आगतेषु सर्वेषु सूरयो ब्रुवते - आर्य ! उपशाम्य, इमे साधवः खाध्यायं न प्रस्थापयन्ति । स वष्टोत्तरं प्रयच्छति -- अवश्यं कालो न शुद्धः परिजितं वा एषां साधूनां सूत्रश्रुतं ततो न प्रस्थापयन्ति । एवं भणतो मासगुरु | साधवश्च 10 सर्वेऽपि स्थापयन्ति खाध्यायं च कुर्वन्ति ॥ ५७६३ ॥ - काले प्रतिक्रान्ते भिक्षावेलायां जातायामिदमाचार्या भणन्ति - १५१९ णोतरणें अभत्तट्ठी, ण व वेला अभुंजणे ण जिण्णं सिं । ण पडिकमंति उवसम, णिरतीयारा णु पच्चाह ।। ५७६४ ॥ आर्य ! साधवस्त्वदीयेनानुपशमनेन भिक्षां नावतरन्ति । स प्राह - नूनमभक्तार्थिनो न वा 15 भिक्षावेला । एवमुक्ते सर्वेऽप्यवतरन्ति । तस्यानुपशान्तस्य द्वितीयं मासगुरु । भिक्षानिवृत्तेषु साधुषु गुरवो भणन्ति - आर्य ! साधवो न भुञ्जते । स प्राह - नूनं साधूनां न जीर्णम् । एवमुक्ते सर्वेऽपि समुद्दिशन्ति । तस्य पुनस्तृतीयं मासगुरु । भूयोऽपि प्रतिक्रमणवेलायां भणन्तिआर्य ! साधवो न प्रतिक्रामन्ति, उपशमं कुरु । स वष्टोत्तरं प्रत्याह – 'नुः' इति वितर्के, सम्भावयाम्यहम् — निरतीचाराः श्रमणास्तेन न प्रतिक्रामन्ति । एवमुक्ते सर्वेऽपि प्रतिक्रामन्ति | 20 तस्य पुनश्चतुर्गुरुकम् । एवं प्रभातकाले अधिकरणे उत्पन्ने विधिरुक्तः ॥ ५७६४ ॥ अन्नम्म विकालम्मि, पढंत हिंडत मंडली वासे । तिन्नि व दोन्नि व मासा, होंति पडिक्कतें गुरुगा उ ।। ५७६५ ।। अथान्यस्मिन् कालेऽधिकरणमुत्पन्नम् । कदा ? इत्याह- 'पठतां ' हीना ऽधिकादिपठने भिक्षां हिण्डमानानां मण्डल्यां वा समुद्दिशतामावश्यके वो । तत्र यदि द्वितीयवेलायामधिकर- 25 णमुत्पन्नं तदा चतुर्थवेलायामनुपशान्तस्य त्रयो गुरुमासाः, तृतीयवेलायामुत्पन्नेऽनुपशान्तस्य गुरुमासौ, एवं विभाषा कर्तव्या । अथ 'प्रतिक्रान्ते' प्रतिक्रमणे कृतेऽपि नोपशान्तस्ततश्चतुर्गुरुकाः ॥ ५७६५ ॥ एवं दिवसे दिवसे, चाउकालं तु सारणा तस्स । जति वारेंण सारेती, गुरुगो गुरुगो तती वारे ।। ५७६६ ॥ एवमनुपशान्तस्य दिवसे दिवसे 'चतुष्कालं' स्वाध्यायप्रस्थापनादि समयरूपं तस्य सारणा १ प्राभातिक प्रतिक्रमणानन्तरं प्रतिलेखनाकाले दुष्प्रत्यु' कां० ॥ २ वा तदा त्रयो वा वा मासा भवन्ति, गुरुमासा इत्यर्थः । तत्र यदि कां० ॥ Jain Education International For Private & Personal Use Only 30 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy