SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १५१६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अधिकरणप्रकृते सूत्रम् ५ अदृष्ट अद्धमासा, मासा होतऽट अट्ठसु पयारो। वासासु असंचरणं, ण चेव इयरे वि पेसंति ॥ ५७५२॥ वगणे यान्याचार्यसत्कानि अष्टौ स्पर्धकानि तेषु पक्षे पक्षे अपरापरस्मिन् स्पर्द्धके संचरतोऽष्टावर्द्धमासा भवन्ति, परगणसत्केष्वप्यष्टसु स्पर्द्धकेषु पक्षे पक्षे संचरतोऽष्टावर्द्धमासाः, एवमु5 भयेऽपि मीलिता अष्टौ मासा भवन्ति । अष्टसु च ऋतुबद्धमासेषु साधूनां 'प्रचारः' विहारो भवतीति कृत्वा अष्टग्रहणं कृतम् । वर्षासु चतुरो मासान् तस्याधिकरणकारिणः साधोः संचरणं नास्ति, वर्षाकाल इति कृत्वा । 'इतरेऽपि' येषां स्पर्द्धके सङ्क्रान्तस्तेऽपि तं प्रज्ञाप्य वर्षावास इति कृत्वा यतो गणादागतस्तत्र न प्रेषयन्ति । तत्र यानि खगणेऽष्टौ स्पर्द्धकानि तेषु सङ्कान्तस्य तैः स्वाध्याय-भिक्षा-भोजन-प्रतिक्रमणवेलासु प्रत्येकं सारणा कर्तव्या-आर्य । उपशमं 10 कुरु । यदि एवं न सारयन्ति ततो मासगुरुकम् ॥ ५७५२ ॥ तस्य पुनरनुपशाम्यत इदं प्रायश्चित्तम् सगणम्मि पंचराइंदियाइँ दस परगणे मणुण्णेसू । अण्णेसु होइ पणरस, वीसा तु गयस्स ओसण्णे ॥ ५७५३ ॥ खगणस्पर्द्धकेषु सङ्क्रान्तस्यानुपशाम्यतो दिवसे दिवसे पञ्चरात्रिन्दिवच्छेदः । परगणे 'मनो15 ज्ञेषु' साम्भोगिकेषु सङ्क्रान्तस्य दशरात्रिन्दिवः, अन्यसाम्भोगिकेषु पञ्चदशरात्रिन्दिवः । अवसन्नेषु गतस्य विंशतिरात्रिन्दिवच्छेदः ॥ ५७५३ ॥ एवं भिक्षोरुक्तम् । अथोपाध्याया-ऽऽचार्ययोरुच्यते एमेव य होइ गणी, दसदिवसादी उ भिण्णमासंतो। पण्णरसादी तु गुरू, चतुसु वि ठाणेसु मासंतो ॥ ५७५४ ॥ 20 एवमेव 'गणिनः' उपाध्यायस्यापि अधिकरणं कृत्वा परगणं सान्तस्य मन्तव्यम् । नवरम्दशरात्रिन्दिवमादौ कृत्वा भिन्नमासान्तस्तस्य च्छेदः । एवमेव 'गुरोरपि' आचार्यस्य 'चतुर्यु खगण-परगणसाम्भोगिका-ऽन्यसाम्भोगिका-ऽवसन्नेषु पञ्चदशरात्रिन्दिवादिको मासिकान्तश्छेदः ॥ ५७५४ ॥ एतत् पुरुषाणां खगणादिस्थानविभागेन प्रायश्चित्तमुक्तम् । अथैतेष्वेव स्थानेषु पुरुषविभागेन प्रायश्चित्तमाह सगणम्मि पंचराइंदियाइँ भिक्खुस्स तदिवस छेदो । दस होति अहोरत्ता, गणि आयरिए य पण्णरस ।। ५७५५॥ खगणे सङ्क्रान्तस्य भिक्षोस्तदिवसादारभ्य दिने दिने पञ्चरात्रिन्दिवच्छेदः । 'गणिनः' उपा१ च्छेदः। तद्यथा-स(स्व)गणस्पर्धके सङ्क्रान्तस्योपाध्यायस्य दशरात्रिन्दिवः, साम्भो. गिकेषु सङ्क्रान्तस्य पञ्च[दशरात्रिन्दिवः, अन्यसाम्भोगिकेषु सङ्कान्तस्य विंशति]रात्रिन्दिवः, अवसन्नेषु सङ्क्रान्तस्य भिन्नमासिकच्छेदः । एवमेव 'गुरोरपि' आचार्यस्य 'चतुर्यु' वगणस्पर्धक-[परगणसाम्भोगिका-ऽन्य साम्भोगिका-ऽवसन्नलक्षणेषु स्थानेषु पञ्चदशरानिन्दिवादिको मासान्ताछेदोऽवगन्तव्यः ॥ ५७५४ ॥ एतत् का० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy