SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 5 15 एवं गच्छनिर्गतस्य प्रस्तुतसूत्रसम्भव उक्तः । सम्प्रति गच्छान्तर्गतस्य तमाह - अहवा अणिग्गयस्सा, भिक्ख वियारे य वसहि गामे य । जहिँ ठाणे साइजति, चउगुरु चितियम्मि एरिसगो ।। ५७२० ।। ' अथवा ' इति न केवलं गच्छाद् निर्गतस्य प्रायश्चित्तं किन्तु गच्छाद निर्गतस्यापि भिक्षाचर्यां विचारभूमिं वा गतस्य वसतौ वा तिष्ठतो ग्रामबहिव यत्र स्थाने देवः स्त्रीरूपेण निर्ग्रन्थं गृह्णाति 10 तत्र यद्यसौ स्वादयति तदा तस्यापि चतुर्गुरु । एतावता प्रथमसूत्रं व्याख्यातम् । द्वितीयसूत्रेऽपि यत्र देवी स्त्रीरूपं विकुर्व्य निर्ग्रन्थं गृह्णीयादित्युक्तं तत्राऽपीदृश एव गमः ॥ ५७२० ॥ अथ निर्मन्थीसूत्रद्वयं व्याख्याति — १५१२ उष्पजंति वियंते य, वसेवं सजणे जणे ॥ ५७१९ ॥ एकाकिनो हि 'चित्तानि' मनांसि 'विचित्राणि' शुभाशुभाध्यवसाय परिणतानि क्षणे क्षणे उत्पद्यन्ते व्ययन्ते च यत एवमतः 'सज्जने' सुसाधुजनसमूहरूपे जने वसेदिति । एते गुणा गच्छे वसतामुक्ताः ॥ ५७१९ ॥ 20 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ब्रह्मापायप्रकृते सूत्रम् १-४ सेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । नवरं पुण णाणतं पुत्रं इत्थी ततो पुरिसो ।। ५७२१ ॥ एष एव गमो निर्ग्रन्थीनामपि ज्ञातव्यः । नवरमत्र नानात्वम् – पूर्व "देवी य पुरिसरुवं विउवित्ता निग्गंथिं पडिगाहेज्जा" इति स्त्रीसूत्रम्, ततः "देवे य पुरिसरूवं" इत्यादिकं द्वितीयं पुरुषसूत्रम् । अनयोरपि सम्भवो धर्मकथादिभिर्व्याघातैर्गणाद् निर्गमने तथैव मन्तव्यो यावत् ता अभ्यार्थिका देवकुलिकायां स्थिताः ॥ ५७२१ ॥ ततः - विगुरुव्विऊण रूवं, आगमणं डंबरेण महयाए । जिण अज साहुभत्ती, अजपरिच्छा वि य तत्र ।। ५७२२ ।। सम्यग्दृष्टिदेवतायाः पुरुषरूपं विकुर्व्य आगमनम् । ततो महता आडम्बरेण देवकुलिकायाः पार्श्वे सार्थमावास्य मायया श्राद्धवेषं विधाय वन्दनकं विस्तरेण कृत्वा भणति - युष्माभिः काचित् पुराणिका संयती वा विषयपराजिता दृष्टा ? युष्माकं वा यद्यर्थस्ततो भोगान् भुञ्जी - महि, भुञ्जानाश्च जिनचैत्यानामार्यिकाणां साधूनां च भक्तिं करिष्यामस्ततो निस्तरिष्यामः । 2. एवमार्या परीक्षाऽपि तथैव मन्तव्या यथा निर्ग्रन्थानामुक्ता ॥ ५७२२ ॥ अथ किमर्थं निर्ग्रन्थेषु प्रथमं देवसूत्रं निर्मन्थीषु च प्रथमं देवीसूत्रम् ? इत्याहवीसत्या सरिसए, सारुपं तेण होइ पढमं तु । पुरिसुत्तरिओ धम्मो, निग्गंथो तेण पढमं तु ॥ ५७२३ ।। 'सदृशे' खपक्षजातौ 'विश्वस्तता' विश्वासो भवति तेन प्रथममुभयोरपि पक्षयोः सारूप्य - सूत्रमभिहितम् । 'पुरुषोत्तरो धर्मः' इति कृत्वा च प्रथमं निर्ग्रन्थानां सूत्रद्वयमुक्तम्, ततो २°मपि सूत्रद्वये ज्ञातव्यो भवति । नवरं पुनरत्र ना° ३ महएण ताभा० ॥ ५ क्ता | क्षुभितानां च तासां ५७२२ || को० ॥ For Private & Personal Use Only 30 १ 'क्तः । अथ गच्छा' कां० ॥ कां० ॥ ३ सम्बन्धो धर्म' कां० प्रायश्चित्तमपि तथैव द्रष्टव्यम् ॥ ॥ Jain Education International ――――― www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy