SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५६१५-२०] चतुर्थ उद्देशः । १४८७ म हा न दी प्रकृतम् सूत्रम् नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महण्णवाओ महानदीओ उहिट्ठाओ गणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा । तं जहा-गंगा जउणा सरऊ कोसिया मही ३२॥ अस्य सम्बन्धमाह अद्धाणमेव पगतं, तत्थ थले पुव्ववणिया मेरा । जति होज तत्थ तोयं, तत्थ उ सुत्तं इमं होति ॥ ५६१८ ॥ 10 अनन्तरसूत्रे "छिन्नावाएसु पंथेसु" इति वचनाद 'अध्वा' मार्ग एव तावत् प्रकृतः । तत्र च स्थले गच्छतां 'पूर्ववर्णिता' प्रथमोद्देशके अध्वसूत्रे भणिता मर्यादा अवधारणीया । यत्र तु मार्गे तोयं भवति तद्विषयविधिप्रतिपादकमिदं सूत्रं भवति ॥ ५६१८॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'नो कल्पन्ते' न युज्यन्ते, सूत्रे एकवचननिर्देशः प्राकृतत्वात् , निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'इमाः प्रत्यक्षासन्नाः पञ्च 'महार्णवाः' बहूदकतया 15 महार्णवकल्पा महासमुद्रगामिन्यो वा 'महानद्यः' गुरुनिम्नगाः ‘उद्दिष्टाः' सामान्येनाभिहिता यथा महानद्य इति, गणिता यथा पञ्चेति, 'व्यञ्जिताः' व्यक्तीकृता यथा गङ्गेत्यादि, 'अन्तर' मध्ये मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा बाहु-जवादिना सन्तरीतुं वा नावादिना । तद्यथा-गङ्गा १ यमुना २ सरयू: ३ कोशिका ४ मही ५। एष सूत्रार्थः ।। अथ भाष्यकारः कानिचिद् विषमपदानि विवृणोति 20 इमाउ त्ति सुत्तउत्ता, उद्दिट्ट नदीउ गणिय पंचेव । गंगादि वंजिताओ, बहुओदग महण्णवातो तू ॥ ५६१९ ॥ इमा इति प्रत्यक्षवाचिना सर्वनाम्ना सूत्रोक्ता उच्यन्ते । उद्दिष्टा नद्य इति । गणिताः पञ्चेति । व्यञ्जिता गङ्गादिभिः पदैर्व्यक्तीकृताः । यास्तु बहूदकास्ता महार्णवा उच्यन्ते ॥५६१९ ॥ कृता विषमपदव्याख्या भाष्यकृता । अथ नियुक्तिविस्तरः पंचण्हं गहणेणं, सेसा वि उ सूइया महासलिला । तत्थ पुरा विहरिसु य, ण य तातों कयाइ सुक्खंति ॥ ५६२० ॥ 'पञ्चाना' गङ्गादीनां ग्रहणेन शेषा अपि योः 'महासलिलाः' बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः । स्याद् बुद्धिः-किमर्थं गङ्गादीनां ग्रहणम् ? इत्याह-"तत्थ" इत्यादि, १°तः, गाथायां नपुंसकत्वनिर्देशः प्राकृतत्वात् । तत्र का० ॥ २ याः सिन्धुप्रभृतयः 'महा कां.॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy