SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४२४ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गणान्त ० प्रकृते सूत्रम् २० प्रतिपद्यन्ते ॥ ५३६० ॥ आह-यत् पूर्वं प्रतिषिद्धं तत् किमेवं भूयोऽनुज्ञायते ? अनुज्ञातं चेत् ततः किमर्थं प्रायश्चित्तं दीयते : इत्याह काल- सरीरावेक्खं, जगस्तभावं जिणा वियाणित्ता । तह तह दिसंति धम्मं, झिजति कम्मं जहा अखिलं ।। ५३६१ ।। 6 'काल- शरीरापेक्षं' कालस्य शरीरस्य च यादृशः परिणामो बलं वा तदनुरूपं जगतः - मनुष्यलोकस्य खभावं विज्ञाय 'जिना ः ' तीर्थकरास्तथा तथा विधि प्रतिषेधरूपेण प्रकारेण धर्ममुपदिशन्ति यथा अखिलमपि कर्म क्षीयते । यच्चानुज्ञातेऽपि प्रायश्चित्तदानं तद् अनवस्था - प्रसङ्गवारणार्थम् ॥ ५३६१ ॥ ॥ कल्पस्थिता-ऽकल्पस्थितप्रकृतं समाप्तम् ॥ गणान्तरोप सम्पत्प्र कृ त म् सूत्रम् — भिक्खू य गणाओ अवकम्म इच्छेजा अन्नं गणं उवसंपजित्ताणं विहरितए, नो से कप्पड़ अणापुच्छित्ता आयरियं वा उवज्झायं वा पवत्तिं वा थेरं वागणं वा गणहरं वा गणावच्छेइयं वा अन्नं गणं उवसंपज्जित्ताणं विहरितए कप्पर से आपुच्छित्ता आयरियं वा जाव गगावच्छेइयं वा अन्नं गणं उबसंपजित्ताणं विहरित्तए । ते य से वियरेजा एवं से कप्पइ अन्नं गणं उवसंपजित्ताणं विहरत्तए; ते य से नो वितरेजा एवं से नो कप्पइ अण्णं गणं उवसंपजित्ताणं विहरित्तए २० ॥ 10 15 20 25 ऐवमप्रेतनमपि सूत्राष्टकमुच्चारणीयम् ॥ अथास्य सूत्रनवकस्यें कः सम्बन्ध: : इत्याहकप्पातो व अकप्पं, होज अकप्पा व संकमो कप्पे । गणि गच्छे व तदुभए, चुतम्मि अह सुत्तसंबंधो ॥ ५३६२ ॥ 1 पूर्वसूत्रे कल्पस्थिता अकल्पस्थिताश्वोक्ताः । तेषां च 'कल्पात् ' स्थितकल्पाद् 'अकल्पे' अस्थितकल्पे सङ्क्रमणं भवेत्, 'अकल्पाद्वा' अस्थितकल्पात् 'कल्पे' स्थितकल्पे सङ्क्रमणं - १ “एवं त्रीणि सूत्राणि उच्चारयितव्यानि ॥ संबंधो - कप्पातो० गाहा ।" इति चूर्णो । “ एवं तिन्निताि उच्चारेयव्वाणि ॥ संबन्धः कप्पातो व० गाहा ।" इति विशेषचूर्णो ॥ २ 'स्य सम्बन्धं दर्शयतिकपात ० ॥ ३° त्, यथा ऋषभस्वामितीर्थाद जितनाथतीर्थ सङ्क्रामतः; 'अकल्पा' कां ० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy