SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४२० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् १९ मज्झिमगाणं कप्पे, तेसि कडं दोण्ह वि ण कप्पे ॥ ५३४७॥ एवमेव श्रमणवर्गे श्रमणीवर्गे च पूर्वेषाम्-ऋषभस्वामिसम्बन्धिनां श्रमणानां श्रमणीनां वा यद् उद्दिष्टम्-उद्दिश्य कृतं तद् मध्यमानां श्रमण-श्रमणीनां कल्पते । 'तेषां' मध्यमानाम र्थाय कृतं 'उभयेषामपि' पूर्व-मध्यमानां साधु-साध्वीनां न कल्पते । एवं पश्चिम-मध्यमानामपि 5 वक्तव्यम् ॥ ५३४७ ॥ अथैकपुरुषोद्देशे विधिमाह पुरिमाणं एक्कस्स वि, कयं तु सव्वेसि पुरिम-चरिमाणं । ण वि कप्पे ठवणामेत्तगं तु गहणं तहिं नत्थि ॥ ५३४८॥ 'पूर्वेषाम्' ऋषभखामिसत्कानामेकस्यापि पुरुषस्यार्थाय कृतं सर्वेषामपि पूर्व-पश्चिमानामकरप्यम्, पश्चिमानामप्येकस्यार्थाय कृतं सर्वेषां पूर्व-पश्चिमानामकल्प्यम् । एतच्च स्थापना10 मात्रं' प्ररूपणामात्रं संज्ञाविज्ञानार्थं क्रियते, बहुकालान्तरितत्वेन पूर्व-पश्चिमसाधूनामेकत्रासम्भवात् तत्र परस्परं ग्रहणं 'नास्ति' न घटते । मध्यमानां तु यदि सामान्येनैकं साधुमुद्दिश्य कृतं तत एकेन गृहीते शेषाणां कल्पते । अथ कमप्येकं विशेष्य कृतं ततः तस्यैवाकल्प्यम् , शेषाणां सर्वेषामपि कल्प्यम् , पूर्व-पश्चिमानां तु सर्वेषामपि तन्न कल्पते ॥ ५३४८॥ ___ अथोपाश्रयोद्देशे विधिमाह एवमुवस्सय पुरिमे, उद्दिढ ण तं तु पच्छिमा भुंजे । मज्झिम-तव्यजाणं, कप्पे उद्दिट्ठसम पुव्वा ॥ ५३४९ ॥ एवं यदि सामान्येनोपाश्रयाणामुद्देशं करोति तदा सर्वेषामकल्प्यम् । अथ पूर्वेषाम्-आद्यतीर्थकरसाधूनामुपाश्रयानुदिशति ततस्तदर्थमुद्दिष्टं पश्चिमा उपलक्षणत्वात् पूर्व वा साधवः सर्वेऽपि न भुञ्जते, मध्यमानां पुनः कल्पनीयम् । अथ मध्यमसाधूनामुपाश्रयान् सर्वानुद्दिश्य 20 करोति ततो मध्यमानां पूर्व-पश्चिमानां च सर्वेषामकल्प्यम् । अथ कियत एव मध्यमोपाश्रयानुदिशति ततः 'तद्वर्जानां' तेषु-उपाश्रयेषु ये श्रमणास्तान् वर्जयित्वा शेषाणां मध्यमश्रमणश्रमणीनां कल्पते । “उद्दिट्ठसम पुव" त्ति पूर्वे साधवः-ऋषभस्वामिसत्का भण्यन्ते, ते 'उद्दिष्टसमाः' यं साधुमुद्दिश्य कृतं तत्तुल्याः, एकमुद्दिश्य कृतं सर्वेषामकल्पनीयमिति भावः ॥५३४९॥ एवं तावत् पूर्वेषां मध्यमानां च भणितम् । अथ मध्यमानां पश्चिमानां चाभिधीयते सव्वे समणा समणी, मज्झिमगा चेव पच्छिमा चेव । मज्झिमग समण-समणी, पच्छिमगा समण-समणीतो ॥ ५३५०॥ सर्वे श्रमणाः श्रमण्यो वा यदोद्दिश्यन्ते तदा सर्वेषामकल्प्यम् । “मज्झिमगा चेव" ति अथ मध्यमाः श्रमणाः श्रमण्यो वा उद्दिष्टास्ततो मध्यमानां पश्चिमानां च सर्वेषामकल्प्यम् । "पच्छिमा चेव" ति पश्चिमानां श्रमण-श्रमणीनामुद्दिष्टे तेषां सर्वेषामकल्प्यम् , मध्यमानां 30 करप्यम् । मध्यमश्रमणानामुद्दिष्टं मध्यमसाध्वीनां कल्पते, मध्यमश्रमणीनामुद्दिष्टं मध्यमसाधूनां कल्पते । पश्चिमश्रमणानामुद्दिष्टे पश्चिमसाधु-साध्वीनां न कल्पते, मध्यमानामुभयेषामपि कल्पते । एवं पश्चिमश्रमणीनामप्युद्दिष्टे वक्तव्यम् ॥ ५३५० ॥ १°मश्रमणीनां क का०॥ 25 www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy