SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९५८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [उपाश्रयप्रकृते सूत्रम् ५ दुदकमापिबन्ति, अप्रत्ययो वा अमीषां भवेत् यथैतद् मृषा तथाऽन्यदपि सर्वममीषामुन्मत्तप्रलपितमिति ॥ ३४२५ ॥ "उड्डाहं व करिजा, विप्परिणामो व हुज सेहस्स । गिण्हतेण व तेणं, खंडिय विद्धे व भिन्ने वा ॥" (गा० ३३४५) इत्यारभ्य "आसन्नो य छणूसों, कजं पि य तारिसेण उदगेण । तेणाण य आगमणं, अच्छह तुहिकया तेणा॥" (गा० ३३५५) इतिपर्यन्ता गाथा गतार्थाः ॥ अथ यैः कारणैः स्तेना उदकमपहरन्ति तानि दर्शयति ऊसव-छणेसु संभारियं दगं तिसिय-रोगियट्ठाए। दोहल कुतूहलेण व, हरंति पडिवेसयाईया ॥ ३४२६ ॥ __उत्सवाः क्षणाश्च पूर्वोक्ताः, तेषु प्रत्यासन्नेषु स्तेना उदकमपहरेयुः । यद्वा तृषिताः सन्तः खयं पानार्थ 'सम्भारितं' कर्पूर-पाटलादिवासितं चतुर्मूलं पञ्चमूलकृतं वा तद् उदकमपहरन्ति । यद्वा रोगी कश्चित् तेषामस्ति तस्य तत् पानीयं पथ्यं तदर्थम् , अथवा गुर्विण्यास्तादृशमुदकमापातुं दोहदः समुत्पन्नः, यदि वा कुतूहलं तेषामुदपादि कीदृशोऽस्य पानीयस्य रसः ? । 16 एवमेभिः कारणैः प्रतिवेश्मिकादयः स्तेना अपहरेयुः ॥ ३४२६ ॥ गहियं च तेहिं उदगं, चित्तूण गया जहिं सि गंतव्यं । सागारिओ व भणई, सउणी वि य रक्खई निहुं ॥ ३४२७ ॥ उक्तार्था (गा० ३३५६)॥ ३४२७ ॥ दगभाणूणे द९, सजलं व हियं दगं व परिसडियं । केण इमं तेणेहि, असिढे भद्देयर इमे उ ॥ ३४२८ ॥ . सागारिको दकभाजनानि न्यूनानि सजलं वा भाजनमपहृतं दकं वा परिशटितं दृष्चा पृच्छति-केनेदं जलमपहृतम् ? । साधवो ब्रुवते-स्तेनैः । ततोऽसौ भूयः प्रश्नयति के पुनः स्तेनाः । ततो यदि नाम्ना वर्णेन वा तान् कथयन्ति ततस्तेषां बन्धनादयो दोषाः । अथ न कथयन्ति ततः 'अशिष्टे' अकथिते भद्रक-प्रान्तकृता इमे दोषाः ॥ ३४२८ ॥ "लहुगा अणुग्गहम्मी, मुरुगा अप्पत्तियम्मि कायबा । कडुग-फरुसं भणंते, छम्मासा करभरे छेओ॥" (गा० ३३५८) इत ऊर्द्धम् "आमं ति अब्भुवगए, भिक्ख-वियाराइ निग्गयमिएसुं । भणइ गुरू सागरियं, कत्थ दगं जाणणट्ठाए ॥” (गा० ३३६७) 30 इतिपर्यन्तं गाथाकदम्बकं प्रावत् ॥ कथं पुनः सूरयः सागारिकं प्रश्नयन्ति ? इत्याह चउमूल पंचमूलं, तालोदाणं च तावतोयाणं । दिट्ठ मए सन्निचया, अन्ने देसे कुटुंबीणं ॥ ३४२९ ॥' १ एतदनन्तरं ग्रन्थानम्-१०० ताटी० मो० ले० ॥ 25 . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy