SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ९३० सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् २ GIF नया प्रमृज्य तत एकान्ते संहरन्ति - संस्थापयन्ति । संहृत्य च तत्र जघन्यं वा मध्यमं चा यथालन्दं वसन्ति । 'कारणं वा' अध्वपरिश्रमादिकं ज्ञात्वोत्कृष्टमपि यथालन्दं वसन्ति । अत्र पाठान्तरम् – “साहट्टुमेगं तु" त्ति तानि बीजानि संहृत्य ततः 'एकम्' इति जघन्यं यथालन्दं वसन्ति, शेषं प्राग्वत् । उत्कीर्णानामभावे विकीर्णेषु तेषामभावे व्यतिकीर्णेषु तदप्राप्तौ ð विप्रकीर्णेष्वपि तिष्ठन्ति । तत्रापि प्रथमं प्रत्येकेषु ततः साधारणेष्वपि । अथोत्क्रमेण तिष्ठन्ति 1 ततो मासलघु । संयतीनामप्येवमेव द्वितीयपदं मन्तव्यम् ॥ ३३०९ ॥ सूत्रम्--- अह पुण एवं जाणिजानो उक्त्तिाइं नो विक्खिताई नो विकिण्णाई नो विष्वकिरणाइं रासिकडाणि वा पुंजकडाणि वा भित्तिकडाणि वा कुलियाकडाणि वा लंछियाणि वा मुद्दियाणि वा पिहिताणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिम्हासु वत्थए २ ॥ - अँथ पुनरेवं जानीयात् — तानि शास्यादीनि वीजानि तत्रोपाश्रये नो उत्क्षिप्तानि नो 15 विक्षिप्तानि नो विकीर्णानि नो विप्रकीर्णानि, किन्तु राशीकृतानि वा पुञ्जीकृतानि वा भित्ति कृतानि वा कुलिकाकृतानि वा लाञ्छितानि वा मुद्रितानि वा पिहितानि वा, तत एवं कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा हेमन्त ग्रीष्मेषु वस्तुमिति सूत्राक्षरार्थः ॥ अत्र भाष्यम् - 10 20 25 रासीकडा य पुंजे -कुलियकडा पिहित मुद्दिते चैव । ठायंतगाण लहुगा, कास अगीतत्थ सुत्तं तु || ३३१० ॥ यत्रोपाश्रये राशीकृतानि पुञ्जीकृतानि कुलिकाकृतानि पिहितानि मुद्रितानि चशब्दाद् भित्तिकृतानि लाञ्छितानि च बीजानि तत्र तिष्ठतां चतुर्लघुकाः । कस्य पुनरेतत् प्रायश्चित्तम् ? उच्यते—अगीतार्थस्य । ‘सूत्रं तु' सूत्रं पुनर्गीतार्थविषयं द्रष्टव्यमिति वाक्यशेषः || ३३१०॥ अथ राशीकृतादिपदानां व्याख्यानमाह पुंज य होति वट्टो, सो चेव य ईसिआयतो रासी । कुलिया कुल्लीणा, भित्तिकडा संसिया भित्ती ।। ३३११ ॥ 'वृत्तः ' वृत्ताकारो धान्योत्करः पुञ्ज इत्युच्यते । स एव 'ईपदायतः' मनाग् दीर्घो राशिः । अपुञ्जः पुञ्जः कृतानीति व्युत्पत्त्या पुञ्जीकृतानि, एवं राशीकृतानीत्यपि । तथा कुलिका कुड्यमुच्यते, ततः कुलिकाकृतानि नाम कुड्यालीनानि कृत्वा स्थापितानि । भित्तिकृतानि तु भित्तौ - Jain Education International · १० क्खिण्णाइं नो विखिष्णाई तामू• ताटी० कां० ॥ २ विकिरण तामूः । विइकिण्णा' ताटी० ॥ ३१० एतच्चिहान्तर्वर्तिनीयं सूत्रवृत्तिर्भ• प्रतौ नास्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy