SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 10 भाप्यगाथाः ३२९१-९७] द्वितीय उद्देशः । मुपाश्रयाणां 'नानात्वं' विशेषमहमानुपूर्व्या वक्ष्यामि ॥ ३२९३ ॥ तत्र नाम-स्थापने क्षुण्णत्वादनादृत्य द्रव्य-भावोपाश्रयौ प्रतिपादयति दवम्मि ऊ उवस्सओं, कीरइ कड वुत्थमेव सुन्नम्मि । भावम्मि निसिटे संजएसु दवम्मि इयरेसु ।। ३२९४ ॥ 'द्रव्ये तु द्रव्यविषयः पुनरुपाश्रयो यः संयतार्थं 'क्रियते' क्रियमाणो वर्त्तते, कृतो वा 5 परमद्यापि न संयतेभ्यो वितीर्यते, अथवा यो गृहस्थैरात्मार्थ निष्पादितः परं तत्र संयता मासकल्पं वर्षाकल्पं वा 'वुत्थ' त्ति उषित्वा अन्यत्र गताः, साम्प्रतं स उपाश्रयः शून्यस्तिष्ठति एष द्रव्योपाश्रयः । भावोपाश्रयो नाम यः संयतेभ्यः 'निसृष्टः' प्रदत्तः, तैः परिभुज्यमान इत्यर्थः । यः पुनः 'इतरेषां' पार्श्वस्थादीनां निसृष्टः सोऽपि द्रव्योपाश्रयो विज्ञेयः । आह च बृहद्भाष्यकृत् जो समणट्ठाएँ कतो, वुत्था वा आसि जत्थ समणा उ । अहवा दवउवस्सओं, पासत्थादीपरिग्गहिओ ॥ ॥ ३२९४ ॥ अथोपाश्रयस्यैकार्थिकान्याह उबसग पडिसग सेजा, आलय वसधी णिसीहिया ठाणे। एगट्ट वंजणाई, उवसग वगडाय निक्खेवो ॥ ३२९५॥ 15 उपेत्य-आगत्य साधुभिराश्रीयत इत्युपाश्रयः । एवं प्रतिश्रीयत इति प्रतिश्रयः । शेरते साधवोऽस्यामिति शय्या । आलीयन्ते साधवोऽत्रेत्यालयः । वसन्ति साधवोऽस्यामिति वसतिः । निषेधः-गमनादिव्यापारपरिहारः स प्रयोजनमस्याः तमहतीति वा नैषेधिकी । तिष्ठन्ति साधवोऽत्रेति स्थानम् । एतान्येकार्थानि 'नानाव्यञ्जनानि' पृथगक्षराण्युपाश्रयस्य नामानि । अथ वगडाया निक्षेपः कर्त्तव्यः ॥ ३२९५ ॥ तमेवातिदेशेनाह 20 एमेव होति वगडा, चउबिहा सा उ पतिपरिक्खेवो। दव्यम्मि तिप्पगारा, भावे समणेहि भुजंती ॥ ३२९६ ॥ 'एवमेव' उपाश्रयवद् वगडा अपि नामादिभेदात् चतुर्विधा भवति । तत्र द्रव्यवगडा गृहसम्बन्धी वृतिपरिक्षेपो मन्तव्यः । सा च त्रिप्रकारा, तद्यथा-सचित्ता अचित्ता मिश्रा च । इयं त्रिप्रकाराऽपि यथा मासकल्पप्रकृते द्रव्यपरिक्षेपः (गा० ११२२-२३) उक्तस्तथैव 25 वक्तव्या । 'भावे' भाववगडा 'श्रमणैः' साधुभिर्यो वृतिपरिक्षेपः परिभुज्यते सा मन्तव्या ॥ ३२९६ ॥ १ अंथ कोऽसावुपाश्रयो यस्यैषा वगडा वर्णिता ? उच्यते-- वलया कोट्ठागारा, हेट्ठा भूमी य होइ रमणिज्जा। १°तार्थ क्रियमाणः कृतो वा वर्तते, स चाद्या भा० । “दवम्मि तु० गाधा । कीरमाणो वा कतो वा संजतेहिं अपरिग्गहितो।" इति चूर्णौ । “दवम्मि उ० गाहा । जो संजयट्ठाए उवस्सओ कीरह कतो वा, जो ण ताव णिसिरिजइ ।" इति विशेषचूर्णौ ॥ २ वति । सा तु वगडा वृतिपरिक्षेपो मन्तव्यः । तत्र द्रव्यवगडा त्रिप्रकारा, मा० ॥ ३ एतचिह्नमध्यगतमवतरणमिदं भा० नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy