SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भाज्यगाथाः ४५९८-४६०५] तृतीय उद्देशः । दिजंते वि तयाऽणिच्छितूण अप्पेमु मे त्ति नेतूणं । कयकजा जणभोगं, काऊण कहिं गया भच्छा ॥ ४६०१ ॥ ग्रहणकाले निर्देजमपि दीयमानं तदानीं नेच्छन्ति स्म । 'अनिष्य च' अनभिकाङ्ग्य मासकल्पे पूर्णे "भे" भवतामर्पयिष्याम इति भणनपूर्वकं नीत्वा साम्प्रतं 'कृतकार्याः' विहितात्मप्रयोजनाः शून्ये जनभोग्यं कृत्वा कुत्र ग्रामे नगरे वा गताः ? । “भच्छे"ति नैपातिकं पदं । कुत्सायां वर्तते, क पुनस्ते दुर्दृष्टधर्माणो गताः ? इत्यर्थः ।। ४६०१॥ अथ "कप्पट्ट खेल्लणे" इत्यादि विवृणोति कप्पट्ट खेल्लण तुअट्टणे य लहुगो य होति गुरुगो य । इत्थी-पुरिसतुयट्टे, लहुगा गुरुगा अणायारे ॥ ४६०२ ॥ तत्र संस्तारके कल्पस्थकानि खेलन्ते लघुको मासः । अथ तान्येव त्वग्वयन्ति गुरुको 10 मासः । अथ महती स्त्री महान् पुरुषो वा त्वग्वर्त्तयति चतुर्लघु । अथैतावनाचारमाचरतस्तदा चतुर्गुरुकाः ॥ ४६०२॥ वोच्छेदे लहु-गुरुगा, नयणे डहणे य दोसु वी लहुगा। विहणिग्गयादऽलंभे, जं पावें सयं व तु णियत्ता ॥ ४६०३ ॥ तस्यैवैकस्य साधोः तस्यैव चैकस्य द्रव्यस्य व्यवच्छेदे चतुर्लघु । अनेकेषां साधूनामन्य-15 द्रव्याणां च व्यवच्छेदे चतुर्गुरु । संस्तारकस्य कल्पस्थकैरन्यत्र नयने दहने च द्वयोरपि चतुर्लघवः । व्यवच्छेदकरणाच्च संस्तारकादेरलाभे विहम्-अध्वा तन्निर्गतादयो यत् परितापनादि प्राप्नुवन्ति खयं वा निवृत्तास्तत्र प्राप्ताः संस्तारकादिकमलभमानी यां विराधनामासादयन्ति तन्निष्पन्नं प्रायश्चित्तम् ॥ ४६०३ ॥ माइस्स होति गुरुगो, जति एकतों भागऽणप्पिए दोसा। 20 अह होंति अण्णमण्णे, ते च्चेव य अप्पिणणे सुद्धो ॥ ४६०४ ॥ - 'मायिनः' मायावतो गुरुको मासो भवति । कथं पुनर्मायां करोति ? इत्याह-यदि 'एकतः' एकस्माद् गृहादनेकैः साधुभिरनेके संस्तारका आनीतास्तदा “भाग" त्ति प्रत्यर्पणकाले तेषु पृथग्भागीकृतेषु य आत्मीयं भागं 'तत्रैव गृहे नेतव्यः' इति कृत्वा तेषां मध्ये प्रक्षिपति नात्मना तत्र नयति एष मायी भण्यते । अस्य च येऽनर्पिते संस्तारके दोषाः ते सर्वेऽपि 25 मन्तव्याः । अथान्यान्येभ्यो गृहेभ्य आनीताः संस्तारका भवन्ति तदापि मायाकरणे त एव दोषाः । तस्माद् यतो गृहादानीतस्तत्र विधिना प्रत्यर्पणे शुद्ध इति सङ्ग्रहगाथासमासार्थः ॥ ४६०४ ॥ अथैनामेव विवृणोति संथारेगमणेगे, भयणट्टविहा उ होइ कायव्वा । पुरिसे घर संथारे, एगमणेगे तिसु पतेसु ॥ ४६०५॥ 30 संस्तारके गृह्यमाणे एका-ऽनेकपदाभ्यामष्टविधा भजना कर्तव्या भवति, अष्टौ भङ्गा इत्यर्थः । सा चैतेषु त्रिषु पदेषु, तद्यथा-पुरुषे गृहे संस्तारके च । एतेषु एका-ऽनेकपदाभ्यामष्टौ १°ना यदासाद भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy