SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ११७८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना०प्रकृते सूत्रम् १६ इयरस्स वि होइ दुहा, गहणं तु पुराणउवहिस्स ॥ ४३५४ ॥ __ अचित्तस्य वस्त्र-पात्रादेरभिनवग्रहणं द्विधा-ओघोपधिविषयम् औपग्रहिकोपधिविषयं च । 'इतरस्यापि' पुराणोपधेर्ग्रहणं द्विधा, उपस्थापनाग्रहणमुपस्थापितग्रहणं चेत्यर्थः ॥ ४३५४ ॥ अथवा अभिनवग्रहणमिदमनेकविधम् जायण निमंतणुवस्सय, परियावन्न परिद्वविय नहूँ । पम्हुट्ठ पडिय गहियं, अभिनवगहणं अणेगविहं ॥ ४३५५ ॥ याच्या-अवभाषणम् , निमन्त्रणा-गृहस्थानामभ्यर्थना, तत्पुरस्सरं यद् वस्त्राग्रहणम् , यच्चोपाश्रये 'पर्यापन्नस्य' पथिकादिभिर्विस्मृत्या परित्यक्तस्य वस्त्रादेर्ग्रहणम् , यच्च परिष्ठापितस्य भूयः कारणे ग्रहणम् , एवं 'नष्टं' हारितं “पम्हुटुं" विस्मृतं पतितं' हस्तात् परिभ्रष्टं 'गृहीतं' 10 प्रत्यनीकेन बलादाच्छिद्य स्वीकृतम् । एतेषां पुनर्लब्धानां यद् ग्रहणमेवमादिकमनेकविध__ मभिनवग्रहणं मन्तव्यम् ॥ ४३५५ ॥ अथ याच्ञा-निमन्त्रणाग्रहणयोर्विधिमतिदिशन्नाह जो चेव गमो हेट्ठा, उस्सग्गाईसु वण्णिओ गहणे । दुविहोवहिम्मि सो चिय, कास त्ति य किं ति कीस ति ॥ ४३५६ ॥ - य एव 'गमः' प्रकारः 'अधस्तात्' पीठिकायाम् (गा० ६२२-२४) उत्सर्गादिको वस्त्र15 ग्रहणविषयो वर्णितः स एवात्र ‘द्विविधोपधेः' ओधिकौपग्रहिकलक्षणस्य ग्रहणे 'कस्य सत्कमेतद् वस्त्र-पात्रादिकं पूर्वमासीद् ? भविष्यति वा ? कस्माद्वा प्रयच्छसि ?' इति पृच्छात्रयपरिशुद्धो द्रष्टव्यः । उपाश्रयपर्यापन्नवस्त्रादिग्रहणविषयस्तु विधिरिहैवोद्देशके पुरस्तादभिधास्यते। परिष्ठापितादेस्तु यथा कारणतो भूयोऽपि ग्रहणं क्रियते तथा व्यवहाराध्ययने भणिष्यते ॥४३५६॥ गतमभिनवग्रहणम् । अथ पुराणग्रहणम् , तच्च द्विधा उपस्थापनाग्रहणं उपस्थापितग्रहणं 20 च । तत्राद्यं तावदाह कोप्परपट्टगगहणं, वामकराणामियाएँ मुहपोत्ती । रयहरण हत्थिदंतुन्नएहिँ हत्थेहुवट्ठाणं ॥ ४३५७॥ कूपराभ्यां चोलपट्टकस्य ग्रहणं कृत्वा वामकरसत्कयाऽनामिकया मुखपोतिकां गृहीत्वा रजोहरणं हस्तिदन्तोन्नताभ्यां हस्ताभ्यामादायोपस्थापनं कर्त्तव्यम् , शैक्षस्य व्रतस्थापना विधेयेत्यर्थः 25॥ ४३५७ ॥ अथोपस्थापितग्रहणमाह उवठावियस्स गहणं, अहभावे चेव तह य परिभोगे । एकेकं पायादी, नेयव्वं आणुपुबीए ॥ ४३५८ ॥ उपस्थापितस्य यद् उपकरणग्रहणं तद् द्विधा-यथाभावः परिभोगश्च । अनेन च द्विविधे. नापि ग्रहणेनैकैकं पात्रादिकम् 'आनुपूर्व्या' परिपाट्या 'नेतव्यं' ग्रहीतव्यम् ॥ ४३५८ ॥ 30 इदमेव भावयति पडिसामियं तु अच्छइ, पायाई एस होतऽहाभावो। सद्दव्व-पाण-भिक्खा-निल्लेवण पायपरिभोगो ॥ ४३५९ ॥ यत् पात्रादिकं प्रतिस्वामितं' विवक्षितसाधुलक्षणेन स्वामिना प्रतिगृहीतं सद् आस्ते न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy