SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १०९२ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्लाकृत्सप्रकृते सूत्रम् ८ द्वितीयमप्यत्र प्रमाणं भवति, किम् ? इत्याह--मुखप्रमाणेन मुखानन्तकं कर्त्तव्यम् । किमुक्तं भवति ?-वसतिं प्रमार्जयन् रजःप्रवेशरक्षणार्थं कोणद्वये गृहीत्वा नासिकां मुखं च प्रच्छाय कृकाटिकायां यावता ग्रन्थि दातुं शक्नोति तावत्प्रमाणा मुखवस्त्रिका कर्तव्या ॥ ३९८२ ॥ गोच्छक पडिलेहणिया, पायट्ठवणं च होइ तह चेव । 5 तिण्हं पिय पमाणं, विहत्थि चउरंगुलं चेव ॥ ३९८३ ॥ गोच्छकः पात्रप्रत्युपेक्षणिका पात्रकस्थापनं च तथैवात्र प्रमाणतो निरूपणीयं भवति । कथम् ? इत्याह-'त्रयाणामपि' गोच्छकादीनां प्रमाणं वितस्तिश्चतुरङ्गुलं च भवति, षोडशाङ्गुलप्रमाणानि चतुरस्राणि त्रीण्यपि भवन्तीति भावः ॥ ३९८३ ।। तदेवमुक्तं पात्र-मात्रक वर्जितानां शेषोपकरणानां प्रमाणम् , पात्र-मात्रकयोस्तु वस्त्राधिकारादत्र न क्रियते, पुरस्ताद् 10 विधास्यते । इह स्थविरकल्पिकानां त्रयः प्रच्छादका भवन्तीति पूर्वमुक्तं तदिदानी द्रढयन्नाह जो वि तिवत्थ दुवत्थो, एगेण अचेलगो व संथरइ। न हु ते खिंसंति परं, सव्वेण वि तिन्नि घेत्तव्या ॥ ३९८४ ॥ योऽपि साधुः त्रिवस्त्रो द्विवस्त्रो वा संस्तरति, त्रिभिाभ्यां वा कल्पैरित्यर्थः, स त्रीन् द्वौ वा कल्पान् परिभुक्ताम् , योऽप्येकेन कल्पेन संस्तरति स एकमेव परिभुताम् , यो वा जिन15 कल्पिकादिरचेलकः संस्तरति स एकमपि कल्पं मा गृह्णातु, परं 'नहि' नैव 'ते' स्वल्पतरवस्त्रा अचेलका वा 'परम्' अन्यमधिकतरवस्त्रं खिसन्ति । कुतः ? इति चेद् उच्यते-सर्वेणापि स्थविरकल्पिकेन त्रयः कल्पा नियमाद् ग्रहीतव्याः । यद्यपि शीतपरीषहसहिष्णुतया कश्चिदेकेनापि कल्पेनाप्रावृतः संस्तरति तथापि भागवतीमाज्ञामनुवर्तमानः सोऽपि त्रीन् कल्पान् गृह्णाति ॥ ३९८४ ॥ किमर्थं पुनरीदृशी भगवतामाज्ञा ! इति उच्यते अप्पा असंथरंतो, निवारिओ होइ तीहि वत्थेहिं । गिण्हति गुरूविदिण्णे, पगासपडिलेहणे सत्त ॥ ३९८५ ॥ 'आत्मा' शरीरं स शीतादिना 'असंस्तरन्। त्रिभिर्वस्वैर्निवारितो भवति । तथा चात्र विशेषचूर्णिलिखितो भावार्थः उस्सग्गेणं ण चेव पाउरियव्वं । जाहे न संथरइ ताहे एक्कं पाउणइ । जाहे तेण वि न 25 संथरेजा ताहे बिइयं पि उण्णिय पाउणेज्जा । जाहे तेण वि न संथरेज्जा ताहे तइयं पि पाउणिज्जा । जइ नाम तह वि न संथरेज्जा ताहे तिन्नि वि छड्डेऊण बाहिं पडिमाए ठाइ, ताव अच्छइ जाव सीएणं नीसढे द्रावितो, पच्छा तम्मि चेव निवेसइ । जइ तत्थ न संथरेजा ताहे अंतो पडिमं ठाइ, तत्थ झाणोवगओ चिट्ठइ । जइ न संथरइ ताहे तम्मि चेव निवेसइ । एवं पि जइ न संथरेइ ताहे एक कप्पं गिण्हेज्जा, जाहे तेण वि न संथरेइ ताहे बिइयं, ततो 30 तइयं, तत्थ से अईव सायं भवइ । एवं अप्पा तिहिं वत्थेहिं निवारिओ हवइ त्ति । अथ तानि परिजीर्णानि ततो न त्रिभिः शीतं निवारयितुं पार्यते तत आह-गुरुभिःआचार्यैर्वितीर्णानि 'प्रकाशप्रत्युपेक्षणानि' जीर्णत्वादचौरहरणीयानि सप्त वस्त्राण्युत्कर्षतो गृहाति १ वितथि साभा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy