SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 10 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्ग्रन्थ्युपा०प्र० सूत्रम् - १ सिद्धं दाइ रहस्सं, ण कहिजइ जं अणत्तस्स || ३७०९ ॥ 'प्रदुमिता' प्रकर्षेण शिताऽस्मि अहं “घरासे" गृहवासे, प्राकृतत्वाद् वाशब्दलोपः, तेन 'हताशेन' कुपतिना, ततः स्थिताऽहमेवंविधे धर्मे । इदं च रहस्यमिदानीं मया भवतां 'शिष्टं ' कथितम्, यद् 'अनाप्तस्य' भवद्यतिरिक्तस्य कस्यापि पुरतो न कथ्यते ॥ ३७०९ ॥ रिक्खस्स वा वि दोसो, अलक्खणो सो अभागधिजो णु । नय निग्गुणा मिअजो !, तुब्भे वि य नाहिह विसेसं ॥ ३७१० ॥ मम पाणिग्रहण दिवसे यद् ऋक्षं-नक्षत्रं तस्य वा कोऽपि दोष आसीत्, तेन स तादृशो निःस्नेहोऽलक्षणोऽभागधेयश्च मम भर्त्ता अभवत्, न चाहं 'निर्गुणा' गुणविकला, यद्वा आर्य ! यूयमपि ज्ञास्यथ मदीयं 'विशेषं' सगुण-निर्गुणता विभागम् ॥ ३७१० ॥ एवमुक्ते संयतो ब्रूयात्इटुकलत्तविओगे, अण्णम्मि य तारिसे अविजंते । 5 25 १०३० महतरयभावेण य, अहमवि एमेव संबंधी ॥ ३७११ ॥ इष्टकस्य वियोगे सञ्जातेऽन्यस्मिँश्च तादृशे कलत्रेऽविद्यमाने महत्तरः- आचार्यो मम धर्ममाख्याति स्म, ततस्तत्प्रभावेणाहमपि प्रव्रजितः । " एमेव" ति यथा तया सविकारमात्मीयं चरितमाख्यातं तथा संयतोऽप्येवमेव कथयति । एवं तयोः परस्परं भावसम्बन्धो भवति 15।। ३७११ ।। किञ्चान्यत् — 'किं पिच्छह सारिक्खं, मोहं मे णेति मज्झ वि तहेव । उच्छंगगता मिमता, इहस ण वि पत्तियंतो मि ॥ ३७१२ ॥ संयतस्तां संयतीं निश्चलया दृष्ट्या निरीक्षते, ततः सा ब्रवीति - किमेवं पश्यथ ? । स प्राह--- मदीयभोगिन्या सह यद् भवत्याः सर्वथैव सादृश्यं तद् मां मोहं नयति, किमेषा सैव ? 20 इति विभ्रमं जनयतीत्यर्थः । सा ब्रवीति ममापि त्वं तथैव मोहं जनयसि । स प्राह-किं करोमि ? ममोत्सङ्गे गता - स्थिता सती सा मृता, 'इतरथा' यदि परोक्षं सा मृताऽभविष्यत् ततो देवानामपि वचनेन प्रत्ययं नागमिष्यम्, यथा-त्वं सा मम पत्नी न भवसीति ॥ ३७१२ ॥ इय संदंसण-संभासणेहिं भिन्नकध-विरहजोएहिं । सेजातरादिपासण, वोच्छेद दुदिट्ठधम्म त्ति ।। ३७१३ ॥ "इय" एवं यत् परस्परं सन्दर्शनं यच्च सम्भाषणं - 'किमिति त्वमद्य भिक्षां न गता ?' इत्यादिपृच्छारूपं ताभ्याम्, तथा यास्तया सह भिन्नकथाः, यश्च विरहे - एकान्ते योगः, एतैश्चारित्रस्य भेद उपजायते । तथा शय्यातर आदिशब्दादन्यो वा यः तत्परिजनादिस्तयोस्तथाविधं चेष्टितं पश्यति स तद्भव्या-ऽन्यद्रव्ययोर्व्यवच्छेदं कुर्यात् । 'दुर्दृष्टधर्माण एते' इत्येवं विपरिणाममुपगच्छेत् । अथासौ तया सह सम्पत्तिं गच्छति ततो नरकायुर्बध्नाति, तीर्थकृतां सङ्घस्य च 30 महतीमाशातनां विधाय बोधिलाभप्रतिबन्धकं कर्मजालमुपचिनोति । उक्तं च — लिंगेण लिंगिणीए, संपत्तिं जइ निगच्छई मूढो । निरयाउयं निबंध, आसायणया अबोही य ॥ ( कल्पवृहद्भाष्ये ) ॥ ३७१३ ॥ १ किं पेक्खह ताभा० ॥ २ एतचिह्नान्तर्गतः पाठः भा० नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy