SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ २००४ सनियुक्ति-लघुनाट्य-वृत्तेके वृहत्कल्पसूत्रे [ आहृतिका० सूत्रम् १७ सम्मिस्सियं वा वि अमिस्सियं वा, गिण्हंति गीता इतरेहिँ मिस्सं । कारेंतऽदिटुं चविगोवितेस् , दिटुं च तप्पच्चयकारि गीता ॥ ३६१४ ॥ यदि सर्वेऽपि गीतार्थास्ततः सम्मिश्रितं वा अमिश्रितं वा सागारिकपिण्डं गृह्णन्ति । अथ 'इतरैः' अगीतार्थैर्युक्तास्ततः 'मिथ' संसृष्टं गृह्णन्ति नासंसृष्टम् । अथासंसृष्टं ( अथ संसृष्टं) न 5 प्राप्यते अविकोविदाश्च-अगीतार्थास्तत्र सन्ति ततः 'अदृष्टं' यथा ते न पश्यन्ति तथा पुराणादिना संसृष्टं कारयन्ति । अथादृष्टे कार्यमाणे तेषामप्रत्यय उत्पद्यते, यथा-एतैः सागारिकपिण्ड एवासंसृष्ट आनीतः; ततस्तत्प्रत्ययकारिणो गीतार्थास्तैदृष्टमपि संसृष्टं कारयन्ति ॥ ३६१४ ॥ अथ “पभुनिक्खंतस्स वा करणं" (गा० ३६१२) इति पदं व्याख्यानयति जो उजिओ आसि पभू व पुव्वं, तप्पक्खिओ राय-गणच्चिओ वा। 10 सवीरिओ पक्खिवती इमं तु, वोत्तूण किं अच्छइ एस वीसुं ।। ३६१५ ॥ यस्तत्र ग्रामे पूर्वम् 'ऊर्जितः' बलवान् 'प्रभु' अधिपतिरासीत् , 'तत्पाक्षिको वा' तस्य ग्रामस्य हितैषी 'राज-गणाञ्चितो वा' राजसम्मतो मल्लादिगणसम्मतो वा आसीत् , एवंविधोऽपि यः 'सवीर्यः' शक्तिमान् , भाजनभेदादयो दोषा यस्य न भवन्तीति भावः; सः 'एन' सागारिकपिण्डमन्यपिण्डेषु प्रक्षिपति, परमिदं वचनमुक्त्वा, यथा-किमेषः 'विष्वक्' पृथक् तिष्ठ15 तीति ॥ ३६१५ ॥ ॥ सागारिकपारिहारिकप्रकृतं समाप्तम् ॥ आ ह ति का नि है ति का प्र कृ त म् सूत्रम् सागारियस्स आहडिया सागारिएण पडिग्गाहिया, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए। सागारियस्स आहडिया सागारिएण अप्पडिग्गा हिया, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए १७॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह नीहडसागरिपिंडस्स विवक्खो आहडो अह उ जोगो । 25 नीहडसुत्ते पुणरवि, जोगो संदट्ठओ नाम ॥ ३६१६ ॥ पूर्वसूत्रे निर्हतः सागारिकपिण्ड उक्तः, इह तु तद्विपक्ष आहृत उच्यते । 'अथ' एष प्रस्तुतसूत्रस्य 'योगः' सम्बन्धः । तथा इतः सूत्रादनन्तरं पुनरपि निर्हतसूत्रं भविष्यति ततोऽयं सूत्रत्रयस्य 'योगः' सम्बन्धः सन्दष्टको नाम मन्तव्यः । किमुक्तं भवति ?-आदौ निह. १ च अगोवि तामा० चूणि विशेषचूर्णिं च विना ॥ २ °ति तद्विषयश्च 'योगः' भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy