SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९७० सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ९ 'पूपः ' आर्द्रखाद्यकविशेषः, तद्ग्रहणेन लपनश्रीप्रभृतिकं सर्वमप्यार्द्रखाद्यकं गृहीतम् । "छुट्टगुलो" ति आर्द्रा गुडः, 'द्रविकः' पिण्डगुड एव पानीयेन द्रावितः, एतदुभयमपि फाणितमुच्यते । शष्कुलिकाग्रहणेन शष्कुलिका - मोदकादिकं सर्वमपि शुष्क खाद्यकं सूचितम् ॥ ३४७६ ॥ जा दहिसरम्मि गालियगुलेण चउजायसुगयसंभारा । कूरम्मि ग्भमाणी, बंधति सिहरं सिहरिणी उ ॥ ३४७७ ॥ दध्नः शरे गालितेन गुडेन या निष्पन्ना, अपरं च 'चतुर्जातक सुकृतसम्भारा' एला-त्वक्तमालपत्र-नागकेसराख्यैश्चतुर्भिर्गन्धद्रव्यैराधिक्येनोपजनितवासा, कूरमध्ये प्रक्षिप्यमाणा शिखरं बघ्नाति सा शिखरिणीत्युच्यते । उत्क्षिप्त - विक्षिप्तादिपदव्याख्या प्राग्वत् ॥ ३४७७ ॥ अथैतेषु तिष्ठतां प्रायश्चित्तमाह 6 पंडाईआइने, निग्गंथाणं न कप्पई वासो । चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा ॥ ३४७८ ॥ पिण्डादिभिः शिखरिणीपर्यन्तैराकीर्णे प्रतिश्रये निर्ग्रन्थानाम् उपलक्षणत्वाद् निर्ग्रन्थीनां च - न कल्पते वासः । अथ तिष्ठन्ति ततश्वत्वारोऽनुद्धाता मासाः । तत्राप्याज्ञादयो दोषा मन्तव्याः || ३४७८ ॥ 10 15 अथवा 'द्वयोरपि' निर्ग्रन्थ-निर्ग्रन्थीवर्गयोस्तत्र तिष्ठतोश्चतुर्गुरुकास्तपः- कालविशेषिताः । तद्यथा——–भिक्षोश्चतुर्गुरुकं तपसा कालेन च लघु, वृषभस्य कालगुरु, उपाध्यायस्य तपोगुरु, आचार्यस्य तपसा कालेन च गुरुकम् । एवं भिक्षुणीप्रभृतीनामपि मन्तव्यम् । अथवा चतुर्गुरु20 कमादौ कृत्वा छेदपर्यन्ता चतुर्णामपि यथाक्रमं शोधिज्ञातव्या ॥ ३४७९ ॥ 25 चउरो विसेसिया वा दोण्ह वि वग्गाण ठायमाणाणं । अहवा चउगुरुगाई, नायव्वा छेयपजंता || ३४७९ ॥ सूत्रम् - अह पुण एवं जाणेज्जा -नो उक्खित्ताइं नो विक्खिताई नो विइण्णिाई नो विष्पकणाई रासिकडाणि वा पुंजकाणि वा कुलियाकडाणि वा “भित्तिकडाणि वा लंछियाणि वा मुद्दियाणि वा पहियाणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा १० हेमंत - गिम्हासु वत्थए ९ ॥ १ छुपमा ताटी० त० डे० ॥ २-३ एतदन्तर्गतः पाठः भा० नास्ति ॥ ४ धिर्मन्तव्या भा० ॥ ५-६ त॰ डे० विनाऽन्यत्र - विखन्नाई नो तामू ताटी० मो० ले० कां० । खिन्नाणि वा नो भा० ॥ ७°वणाणि वा नो भा० ॥ ८ष्णाणि वा रा० भा० ॥ ९ एतन्मध्यगतः पाठः तामू०] नास्ति ॥ १० एतदन्तर्गतः पाठः तामू० एव वर्त्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy