SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६५२ 10 सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू० १२ यद् गृहम् 'आपणमध्ये' समन्तादापणे : परिक्षिप्तम् अथवा मध्यभागे यद गृहं द्वाभ्यामपि च पार्श्वभ्यां यस्यापणा भवन्ति तद् आपण गृहं भवति । रथ्यामुखं रथ्यायाः पार्थे भवति ॥२२९८॥ तच त्रिविधम् तं पुण रच्छमुहं वा, बाहिमुहं वा वि उभयतोंमुहं वा । अहवा जत्तो पवहइ, रच्छा रच्छामुहं तं तु ॥ २२९९ ॥ __ 'तत् पुनः' गृहं रथ्यायाः पार्थे वर्तमान रथ्याया अभिमुखं वा भवेद् 'बहिर्मुखं वा' रथ्या तस्य पृष्ठतो वर्तते इत्यर्थः, 'उभयतोमुखं वा' यस्यैकं द्वारं रथ्यायाः पराङ्मुखमेकं तु रथ्याया अभिमुखमित्यर्थः, अथवा यतो गृहाद् रथ्या प्रवहति तद् रथ्यामुखमुच्यते ॥ २२९९॥ सिंघाडगं तियं खलु, चउरच्छसमागमो चउक्कं तु । छह रच्छाण जहि, पवहो तं चच्चरं विती ॥२३००॥ शृङ्गाटकं नाम यत् 'त्रिकं' रथ्यात्रवमीलनस्थानम् । क्वचित् तु सूत्रादर्शे “तियंसि वा" इत्यपि पदं दृश्यते, तत्रैवं व्याख्या—'शृङ्गाटकं' सिङ्घाटकाकारं त्रिकोणं स्थानम् , 'त्रिकं' रथ्यात्रयमीलकः । चतुष्कं तु चतसृणां रथ्यानां समागमः । तथा यत्र षण्णां रथ्यानां 'प्रवहः' निर्गमस्तत् चत्वरं ब्रुवते तीर्थकरमाणधराः ॥ २३००॥ 15 अह अंतरावणो पुण, वीही सा एगओ व दुहओ वा । तत्थ गिह अंतरावण, गिहं तु सयमावणो चेव ।। २३०१ ॥ _ 'अर्थ' इत्यानन्तर्ये । अन्तरापणो नाम 'वीथी' हट्टमार्ग इत्यर्थः, सा 'एकतो वा' एकपार्श्वन "दुहओ व" ति द्वाभ्यां वा पार्श्वभ्यां भवेत् तत्र यद् गृहं तद् अन्तरापणगृहम् । यद् वा गृहं खयमेवापणस्तदन्तरापणः । किमुक्तं भवति ?—यत्रैकेन द्वारेण व्यवह्रियते द्वितीयेन 20तु गृहं तदन्तरापणगृहम् । एतेषु प्रतिश्रयेषु संयतीनां न कल्पते स्थातुम् ॥ २३०१ ॥ अथैतेष्वेव तिष्ठन्तीनी प्रायश्चित्तमाह आवण रच्छगिहे वा, तिगाइ सुन्नंतरावणुजाणे । चउगुरुगा छल्लहुगा, छग्गुरुगा छेय मूलं च ।। २३०२ ॥ आपणगृहे तिष्ठन्ति चतुर्गुरुकाः । रथ्यागृहे तिष्ठन्ति षड्लघवः । “तिगाइ" ति त्रिक-च१ मो० ले. विनाऽन्यत्र-क्षिप्तं तदापणगृहम् , यद् वा मध्ये गृहं "दुहतो यि" त्ति द्वाभ्यामपि च त• डे० । क्षिप्तं यद्वा यस्य गृहस्य द्वाभ्यामपि पार्वाभ्यामापणा भवन्ति तद् आप° भा०॥ २°म्, तद्यथा-तं पुण त• डे० ॥ ३ यस्य द्वारद्वयं रथ्यायाः पराङ्मुखमभिमुखं चेत्यर्थः भा० ॥ ४ तु “तियंसि वा" इत्यपि पदं पठ्यते भा० ॥ ५°णो जो तु भा० । वृत्तिस्तु णो जो य इति पाठानुसारेण वर्तते, दृश्यतां टिप्पणी ६ । चूर्णिकृताऽपि-°णो जो य इति पाठ आदतोऽस्ति ॥ ६ यद्वा "सयमावणो जो य" त्ति यद् गृहं स्वयमेवापणः । किमु भा० ॥ ७°तुम् । अथ तिष्ठन्ति तदा प्रागुक्तमेव चतुर्गुरुकाख्यं प्रायश्चित्तं प्रामुवन्ति ॥२३०१॥ अथात्रैव प्रकारान्तरेण प्राय° त० डे० कां० ॥ ८°नां प्रकारान्तरेण प्रा भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy